________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [११६-११९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
मुद्धाण धरणीतलंसि निवेसेइ-निवेशयतीत्यर्थः, 'ईसिं पच्चुन्नमति २ करतलपरिग्गहियं अंजलिं मत्थए कटु एवं वयासी-नमोत्थु णं अरहताणं जाच संपत्ताणं वंदति नमसति २ जिणघराओ पडिनिक्खमह'त्ति तत्र वन्दते चैत्यवन्दनविधिना प्रसिद्धेन नमस्पति पश्चात् प्रणिधानादियोगेनेति वृद्धाः, न च द्रौपद्याः प्रणिपातदण्डकमात्रं चैत्यवन्दनमभिहितं सूत्रे इति सूत्रमात्रप्रामाण्यादन्यस्यापि श्रावकादेस्तावदेव तदिति मन्तव्यं, चरितानुवादरूपवादस्य, न च चरितानुयादवचनानि विधिनिषेधसाधकानि भवन्ति, अन्यथा सरिकामादिदेववक्तव्यतायां बहूनां शस्त्रादिवस्तूनामर्चनं श्रूयते इति तदपि विधेयं स्यात् , किञ्च-अविरतानां प्रणिपातदण्डकमात्रमपि चैत्यवन्दनं सम्भाव्यते, यतो वन्दते नमस्यतीति पदद्वयस्य | वृद्धान्तरण्याख्यानमेवमुपदर्शितं जीवाभिगमवृत्तिकृता-"विरतिमतामेव प्रसिद्धचैत्यबन्दनविधिर्भवति, अन्येषां तथाऽभ्युप-16 गमपुरस्सरकायोत्सर्गासिद्धेः, ततो. वन्दते सामान्येन नमस्करोति आशयवृद्धः प्रीत्युत्थानरूपनमस्कारेणे"ति किञ्च-समगण सावएण य अवस्स कायवयं हवइ जम्हा। अंतो अहो नि सिस्स य तम्हा आवस्सयं नाम ॥१॥" तथा "जपणं समणो वा समणी वा सावओ वा साविया वा तचित्ते तल्लेसे तम्मणे उभओ कालं आवस्सए चिट्ठति तन्नं लोउत्तरिए भावावस्सए" [श्रमणेन श्रावकेण चावश्यं कर्तव्यं भवति यस्मात् । अन्तरहो निशायाश्च तसादावश्यकं नाम ॥१॥ यत् श्रमणो वा श्रमणी | वा श्रावको वा प्राधिका वा तश्चित्तः तन्मनाः तल्लेश्यः उभयसिन् काले आवश्यकाय तिष्ठति तत् लोकोत्तरिक भावावश्यकं ] इत्यादेरनुयोगद्वारवचनात् , तथा 'सम्यग्दर्शनसम्पन्नः प्रवचनभक्तिमान् पविधावश्यकनिरतः पदस्थानयुक्तच श्रावको भवती'त्युमास्वातिवाचकवचनाच श्रावकस पबिधावश्यकस्य सिद्धावावश्यकान्तर्गत प्रसिद्ध चैत्यवन्दनं सिद्धमेव भवतीति ।।
~424~