________________
आगम
(०६)
प्रत
सूत्रांक [ ७९-८०]
दीप
अनुक्रम
[११०
-११२]
श्रुतस्कन्ध: [१] अध्ययनं [९], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६ ]
ज्ञाताधर्मकथाङ्गम्.
[રપઢી
“ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:)
Educatin internation
तन्ती वा ऊर्द्ध यान्ती तथोत्पतन्तीव धरणीतलात् सिद्धविद्या विद्याधरकन्यका तथाऽधः पतन्तीव गगनतलाद् भ्रष्टविद्या वि| द्याधरकन्यका तथा विपलायमानेव - भयाद्धावन्तीव महागरुड वेगवित्रासिता भुजगकन्यका धावन्तींव महाजनस्य रसितशब्देन वित्रस्ता स्थानभ्रष्टाऽव किशोरी तथा विगुञ्जन्तीव-अव्यक्तशब्दं कुर्वन्तीव अवनमन्तीव वा गुरुजनदृष्टापराधा-पित्राद्युपलब्धव्यलीका सुजनकुलकन्यका कुलीनेति भावः, तथा घूर्णन्तीव वेदनया थरथरायमाजेव वीचिप्रहारशतताडिता हि स्त्री वेदनया घूर्णतीति वेदनयेव घूर्णयन्तीत्येवमुपमानं द्रष्टव्यं गलितलम्बनेव-आलम्बनाद् भ्रष्टेव गगनतलाद्-आकाशात् पतितेति गम्यते, यथा क्षीणबन्धनं फलाद्याकाशात् पतति एवं साऽपीति, कचित्तु गलितलम्बना इत्येतावदेव दृश्यते, तत्र लम्ब्यन्ते इति लम्बना:--नङ्गरास्ते गलिता यस्यां सा तथा, तथा रुदन्तीव, केः केत्याह-सलिलभिन्ना ये ग्रन्थयस्ते सलिलग्रन्थयः ते च ते 'विप्पइरमाण'ति विप्रकिरन्तथ सलिलं क्षरन्त इति समासः तं एवं स्थूरा अश्रुपातास्तैर्नववधूरुपरतभर्तृका तथा विलपन्तीय, कीदृशी केल्याह-परचक्रराजेन - अपरसैन्यनृपतिनाऽभिरोहिता - सर्वतः कृतनिरोधा या सा तथा परममहाभयाभिद्रुता महापुरवरी, तथा क्षणिकस्थिरत्व साधर्म्यात् ध्यायन्तीव कीडशी केत्याह- कपटेन-वेषाद्यन्यथावेन यच्छद्म तेन प्रयोगः- परप्रतातरणव्यापारः तेन युक्ता या सा तथा योगपरिवाजिका-समाधिप्रधानत्रतिनीविशेषः, तथा निःश्वसन्तीव अधोगमनसाधर्म्यात् तद्गत जननिःश्वाससाधर्म्याद्वा निःश्वसन्तीव कीदृशी केत्याह--महाकान्तारविनिर्गता परिश्रान्ता च या सा तथा परिणतवया - विगतयौवना 'अम्मय'ति अम्बा पुत्रजन्मवती, एवंभूता हि स्त्री श्रमप्रचुरा भवति ततश्वात्यर्थं निःश्वसितीत्येवं सा विशेषितेति तथा तद्गतजनविषादयोगात् शोचन्तीव, कीडशी केवेत्याह- तपश्चरणं ब्रह्मचर्यादि तत्फलमपि उपचारात् तपश्वरणं
For Parts Only
मूलं [७९-८० ]
"ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~ 319~
९. माकन्दीज्ञाता. सू.
१७९-८०
॥ १५८॥