________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः )
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [४], ------------------ मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [५१]
बाधां व्याबाधा वा छविच्छेद-शरीरच्छेदं, श्रान्ती-शरीरतः खित्री तान्ती-मनसा परितान्ती-उभयतः, 'ताए उफिट्टाए' इहए एवं दृश्यं 'तुरिमाए चवलाए चंडाए सिग्याए उद्धुयाए जयणाए छेयाए'त्ति तत्र उत्कृष्टा-कूर्माणां यः स्वगत्युत्कर्षः तद्वती सरितत्वं मनस औत्सुक्यात् चपलखं कायस्य चण्डवं संरम्भारब्धखात् शीघ्रखं अत एव उद्धृतवं अशेषशरीरावयवकम्पनात् , जयनीलं शेषकूर्मगतिजेतृखात् छेकलमपायपरिहारनपुण्यादिति । ज्ञातोपनयनिगमने च कण्ठो, केवलं 'आयरियउबज्झायाणं 81 |अंतिए पाइए समाणे' इत्यत्र विहरतीति शेषो द्रष्टण्या, विशेषोपनयनमेवं कार्य-दह कर्म स्थानीयौ साधू शूगालस्थानीयी राग-12 द्वेषौ ग्रीवापञ्चमपादचतुष्टयस्थानीयानि पश्चेन्द्रियाणि पादग्रीवाप्रसारणस्थानीयाः शब्दादिविषयेष्विन्द्रियप्रवृत्तयः शृगालप्राप्तिस्थानीयो रागद्वेषोद्भवः पादादिच्छेदकूर्ममरणस्थानीयानि रागादिजनितकर्मप्रभवानि तिर्यगनरनरकजातिभवेषु नानाविधदुःखानिश पादादिगोपनस्थानीया इन्द्रियसलीनता शृगालाग्रहणलक्षणा रागाद्यनुत्पतिः मृतगङ्गानदप्रवेशतुल्या निर्वाणप्राप्तिरिति । इह गाथा-'विसएम इंदिआई रंभता रागदोसनिम्मुका । पार्वति निवुइसुहं कुम्मुव मयंगदहसोक्खं ॥१॥ अवरे उ अणत्थपरंपरा उ पाति पापकम्मवसा । संसारसागरगया गोमाउग्गसियकुम्मोच ।। २॥" [विषयेभ्य इन्द्रियाणि रुन्धन्तो रागद्वेषविमुक्ताः। प्राघुवन्ति निवृतिसुखं कूर्म इव मृतगङ्गाहदसौख्यम् ॥ १॥ अपरे त्वनर्थपरम्परास्तु प्राप्नुवन्ति पापकर्मवशाः । संसारसागर|गता गोमायुग्रस्त कूर्म इव ॥२॥] इति ज्ञातधर्मकथायां चतुर्थमध्ययनं विवरणतः समाप्तम् ॥ ४॥
दीप अनुक्रम
[६२]
SSS
Taurasurary.com
अत्र अध्ययन-४ परिसमाप्तम्
~200~