________________
आगम
(०६)
प्रत
सूत्रांक
[२७]
दीप
अनुक्रम
[३७]
“ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:)
श्रुतस्कन्धः [१]
अध्ययनं [१],
मूलं [२७]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
ज्ञाताधर्मकथाङ्गम्.
॥ ६९ ॥
करेणूनां ताभिर्वा विविधा 'दिन'त्ति दत्ताः कजप्रसवैः पद्मकुसुमैर्घाताः प्रहारा येषु यस्य वा स तथा 'वणरेणुवि विहदिन्नकयपसुधाओ ति पाठान्तरे तु बनरेणवो-वनपांशको विविधं अनेकधा 'दिन'त्ति दत्ता दिक्ष्वात्मनि च क्रीडापरतया क्षिप्ता येन ४ स तथा, तथा क्रीडयैव कृताः पांशुधाता येन स तथा ततः पदद्वयस्य कर्म्मधारयः, 'तुम'ति त्वं, तथा कुसुमैः कृतानि यानि चामरवत्कर्णपूराणि तैः परिमण्डितोऽभिरामश्च यः स तथा कचित् 'उज्यकुसुम' ति पाठः, तत्र ऋतुजकुसुमैरिति व्याख्येयं, तथा मदवशेन विकसन्ति कटतटानि गण्डतटानि क्लिन्नानि - आद्रीकृतानि येन तत्तथा तच तद्गन्धमद्वारि च तेन सुरभिजनितगन्धः - मनोज्ञकृतगन्धः करेणुपरिवृतः ऋतुभिः समस्ता समाप्ता वा परिपूर्णा जनिता शोभा यस्य स तथा काले किंभूते ?दिनकरः करप्रचण्डो यत्र स तथा तत्र, परिशोषिताः- नीरसीकृताः तरुवरा : श्रीधराः - शोभावन्तो येन परिशोषिता वा तरुवराणां श्री:- संपद्धरायां- भुवि वा येन, पाठान्तरे परिशोषितानि तरुवरशिखराणि येन स तथा स चासौ भीमतरदर्शनीयश्चेति, तत्र, भृङ्गाराणां पक्षिविशेषाणां स्वतः खं कुर्वतां भैरवो भीमो वः- शब्दो यस्मिन् स तथा तत्र, नानाविधानि पत्रकाष्ठतृणकचवराण्युद्धतानि - उत्पाटितानि येन स तथा स चासौ प्रतिमारुतश्च प्रतिकूलवायुस्तेन आदिग्धं व्याप्तं नभस्तलं व्योम 'पडम| माणे ति पडसादुपतापकारि यस्मिन् पाठान्तरे उक्तविशेषणेन प्रतिमारुतेनादिग्धं नभस्तलं द्रुमगणश्च यस्मिन् स तथा तत्र वातोल्या - वात्यया दारुणतरो यः स तथा तत्र, तृष्णावशेन ये दोषा-वेदनादयस्तैर्दोषिता जातदोषा दूषिता वा भ्रमन्तो | विविधा ये श्वापदास्तैः समाकुलो यः स तथा तत्र, भीमं यथा भवत्येवं दृश्यते यः स भीमदर्शनीयः तत्र वर्तमाने दारुणे ग्रीष्मे, केनेत्याह- मारुतवशेन यः प्रसरः- प्रसरणं तेन प्रसृतो विजृम्भितथ - प्रबलीभूतो यः स तथा तेन, वनदवेनेति योगः अभ्यधिकं
Education Internation
मेघकुमारस्य पूर्वभवाः
For Parks Use Only
~ 141 ~
१ उत्क्षिप्त
ज्ञाते मेघपूर्वभवोदितिः सू.
२७
॥ ६९ ॥