________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः )
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [२४]
दीप अनुक्रम [३३]
शृङ्गारप्रधान आकारो यस्यावारुश्च येषो यस्याः सा तथा, सङ्गतेषु गतादिषु निपुणा युक्तेषूपचारेषु कुशला च या सा तथा, तत्र विलासो-नेत्रविकारो, यदाह-"हावो मुखविकारः स्याद्भाववित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥१॥" संलापो-मिथो भाषा उल्लापः काकुवर्णनं, आह च-"अनुलापो मुहुर्भाषा, प्रलापोऽनर्थकं वचः । काका वर्णनमुल्लापः, संलापो भाषणं मिथः॥१॥" इति । 'आमेलग'चि आपीड:-शेखरः स च स्तन:-प्रस्तावाचुचुकस्तत्प्रधानौ आमेलको वा-परस्परमीपल्सम्बद्धौ यमलौ-समणिस्थिती युगलौ-युगलरूपी द्वावित्यर्थः वर्तितौ-वृत्ती अभ्युनती-उषी पीनौ-स्थली रतिदौ- सुखप्रदौ संस्थिती-विशिष्टसंस्थानवन्ती पयोधरी-स्तनी यस्याः सा तथा, हिमं च रजतं च कुन्दश्वेन्दुश्चेति द्वन्द्वः, एपामिव प्रकाशो यस्य तत्तथा, सकोरेण्टानि-कोरेण्टकपुष्पगुच्छयुक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा, धवलमातपत्रं-छत्रं, नानामणिकनकरवानां महार्हस्य महास तपनीयस्य च सत्काबुज्ज्वलो विचित्रौ दण्डौ ययोस्ते तथा, अत्र कनकतपनीययोः को विशेषः, उच्यते, कनकं पीतं तपनीयं रक्तं इति, 'चिल्लियाओ'त्ति दीप्यमाने लीने इत्येके मूक्ष्मवरदीर्घवाले शकुन्ददक-13 | रजसा अमृतस्य मथितस्य सतो यः फेनपुंजस्तस्य च सन्निकाशे-सदृशे ये ते तथा, चामरे चन्द्रप्रभवजवैयविमलदण्डे, इह चन्द्र-1 प्रभा-चन्द्रकान्तमणिः, तालवृन्त-व्यजनविशेषः मत्तगजमहामुखस्य आकृत्या-आकारण समानः-सदृशो यः स तथा तं भृङ्गारं, 'एगे'त्यादि, एकः-सदृशः आभरणलक्षणो गृहीतो निर्योगः-परिकरो यैस्ते तथा तेषां कौटुम्पिकवरतरुणानां सहस्रमिति । 'तएणं ते कोडुपियवरतरुणपुरिसासदाविय'ति शब्दिताः 'समाणति सन्तः, 'अदृहमंगलय'त्ति अष्टावष्टाविति वीप्सायां द्विर्वचनं मङ्गलकानि-माङ्गल्यवस्तूनि, अन्ये साहुः-अष्टसंख्यानि अष्टमङ्गलसंज्ञानि वस्तूनीति 'तप्पढमयाए ति तेषां विवक्षितानां
मेघकुमारस्य राज्याभिषेक एवं दीक्षा
~116~