________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], -
------- मूलं [१५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [१५१]
'नेरइया णं भंते !' इत्यादि सुगम, नवरं स्थितिः-नारकादिपर्यायेण जीवानामवस्थानकालः 'अपज्जत्तयाण'ति नारकाः किल लन्धितः पर्यासका एव भवन्ति, करणतस्तूपपातकाले अन्तर्मुह यावदपर्याप्तका एव भवन्ति ततः। पर्याप्तकाः, ततस्तेषामपर्यासकत्वेन स्थितिर्जघन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहूर्तमेव, पर्याप्तकानां पुनरौषिक्येव जघन्योत्कृष्टा चान्तर्मुहूर्तोना भवतीति, अयं चेह पर्याप्तकापर्याप्तकविभाग:-'नारयदेवा तिरिमणुयगम्भया जे असंखवासाऊ । एते उ अपज्जत्ता उववाए चेव बोद्धवा ॥१॥ सेसा य तिरियमणुया लद्धिं पप्पोबवायकाले य । दुहओविय भइयचा पजत्तियरे य जिणवयणं ॥२॥'ति, उक्ता सामान्यतो नारकाणां स्थितिर्विशेषतस्तामभिधातुमिदमाह|'इमीसे णमित्यादि, स्थितिप्रकरणं च सर्व प्रज्ञापनाप्रसिद्धमित्सतिदिशन्नाह–'एव'मिति यथा प्रज्ञापनायां सामान्यपर्याप्तकापर्याप्सकलक्षणेन गमत्रयेण नारकाणां नारकविशेषाणां तिर्यगादिकानां च स्थितिरुक्ता एवमिहापि वाच्या, कियदूरं यावदित्याह-'जाव विजये'त्यादि, अनुत्तरसुराणामोधिकापर्याप्तकपर्याप्तकलक्षणं गमत्रयं यावदित्यर्थः, इह चैवमति|दिष्टसूत्राण्यर्थतो वाच्यानि रत्नप्रभानारकाणां भदन्त ! कियती स्थितिः?, गौतम ! जघन्येन दश वर्षसहस्राणि उत्कर्षतः सागरोपमं १, अपर्याप्सकरत्नप्रभापृथिवीनारकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, गौतम ! उभयथापि अन्तमुहूर्तमेव, पर्याप्तकानां तु सामान्योक्तवान्तर्मुहूर्तांना वाच्या, एवं शेषपृथ्वीनारकाणां प्रत्येकं दशानामसुरादीनां पृथि-| वीकायिकानां तिरवां गर्भजेतरभेदानां मनुष्याणां व्यन्सराणामष्टविधानां ज्योतिष्काणां पञ्चप्रकाराणां सौधर्मादीनां
%
दीप
4
अनुक्रम [२४५]
%
5
+5
SARERana
~285~