________________
आगम
(०४)
प्रत
सूत्रांक
[१४९]
+
गाथा:
दीप
अनुक्रम
[२३४
-२३७]
अंगसूत्र-४ (मूलं+वृत्तिः)
“समवाय" समवाय [प्रकिर्णका:], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
मूलं [१४९ ]
-
प्पहा मेयवसापूयरुहिरमंसचिक्खिहलित्ताणुलेवणतला असुहवीसा परमदुभिगंधा काऊअगणिवण्णाभा कक्खड - | फासा दुरहियासा' इति तत्र नित्यं सर्वदा अन्धकारं - अन्धत्यकारकं बहलवलाहकपटलाच्छादितगगनमण्डलामावास्वार्द्धरात्रान्धकारवत्तमः- तमिखं येषु ते नित्यान्धकारतमसः, अथवा नित्येनान्धकारेण सार्वकालिकेनेत्यर्थः तमसः - | तमिस्रा नित्यान्धकारतमसः, जात्यन्धमेद्यान्धकारामावास्यानिशीथतुल्या इत्यर्थः, कथमित्यत आह-व्यपगता - अविद्यमाना ग्रहचन्द्रसूरनक्षत्ररूपाणां ज्योतिषां - ज्योतिष्कलक्षणविमानविशेषाणां ज्योतिषो वा - दीपाद्यः प्रभाप्रकाशो येषु ते तथा, 'पह'त्ति पथशब्दो वाऽयं व्याख्येयः, तथा मेदोवसापूयरुधिरमांसानि शरीरावयवास्तेषां यच्चि - |क्खिलं कर्दमस्तेन लिप्तं- उपदिग्धमनुलेपनेन सकलिप्तस्य पुनः पुनरुपलेपनेन तलं - भूमिका येषां ते मेदोवसापूयरुधिरमांस चिक्खिल लिप्सानुलेपनतलाः, यद्यपि च तत्र मेदः प्रभृतीन्यौदारिकपञ्चेन्द्रियशरीरावयवरूपाणि न सन्ति | वैक्रियशरीरत्वान्नारकाणां तथापि तदाकारास्तदवयवास्तत्र प्रोच्यन्त इति, अशुचयो विश्राः - आमगन्धयः पूतिगन्धय इत्यर्थः, अत एव परमदुरभिगन्धाः 'काऊअगणिवण्णाभ'त्ति कृष्णाग्निर्लोहादीनां ध्मायमानानां तद्वर्णवदाभा येषां ते कृष्णाग्निवर्णाभाः, तथा कर्कशः स्पर्शो येषां ते कर्कशस्पर्शाः, अत एव दुःखेन-कृच्छ्रेणाधिसोढुं शक्यते वेदना येषु ते दुरधिसह्याः, अत एवाशुभा नरका अशुभा नरकेषु वेदना इति 'एवं सत्तवि भाणिय'त्ति प्रथमाममुञ्चता सत इत्युक्तं, 'जं जासु जुज्जर'त्ति यच यस्यां पृथिव्यां वाहलयस्य नरकाणां च परिमाणं युज्यते स्थानान्तरोकानुसारेण तच तस्यां
For Parts Only
~ 275 ~
weary org