________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], -
------- मूलं [१४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१४९]
गाथा:
अपि, पञ्चेन्द्रियाश्चतुर्दा नारकादिभेदात्, तत्र नारकाः सप्तविधाः रत्नप्रभादिपृथ्वीभेदात् , पञ्चेन्द्रियतिर्यञ्चविधाजलस्थलखचरभेदात् , तत्र जलचराः पञ्चविधा मत्स्यकच्छपग्राहमकरसुंसुमारभेदात्, पुनर्मत्स्या अनेकधा-लक्ष्णमत्स्यादिभेदात्, कच्छपा द्विधा अस्थिकच्छपमांसकच्छपभेदात्, पाहाः पञ्चधा दिलिवेष्टकमद्पुलकसीमाकारभेदात् मकरा-मत्स्यविशेषा द्विविधाः-शुण्डामकरा करिमकराश्च, सुंसुमारास्त्वेकविधाः, स्थलचरा द्विधा-चतुष्पदपरिसर्पभेदात्, तत्र चतुष्पदाश्चतुर्की-एकखुरद्विखुरगण्डीपदसनखपदभेदात्, क्रमेण चैते अश्वगोहस्तिसिंहादयः, परिसर्पा द्विधा-उरःपरिसर्पभुजपरिसर्पभेदात्, उरस्परिसाश्चतुर्द्धा-अहिअजगराशालिकमहोरगभेदात् , तत्राहयो द्विधा-दीकरा मुकुलिनश्चेति, खचराश्चतुर्की-चर्मपक्षिणो लोमपक्षिणः समुद्गपक्षिणो विततपक्षिणश्च, तत्राद्यौ द्वौ बल्गुलीहंसादिभेदावितरौ द्वीपान्तरेष्वेव स्तः, सर्वे च पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च द्विधा-सम्मूछिमा गर्भव्युत्क्रान्तिकाश्च, तत्र संमूछिमाः नपुंसका एव, इतरे तु त्रिलिङ्गा इति, गर्भव्युत्क्रान्तिकमनुष्यात्रिधा-कर्मभूमिजा अकर्मभूमिजा अन्तरद्वीपजाश्चेति, कर्मभूमिजा द्विविधाः-आर्या म्लेच्छाश्च, आर्या द्वेधा-ऋद्धिप्राप्ता इतरे च, तत्र प्रथमा अहंदादयः, द्वितीया नवविधाः-क्षेत्रजातिकुलकर्मशिल्पभाषाज्ञानदर्शनचारित्रभेदात् , देवाश्चतुर्विधाः भवनवास्थादिभेदा
वनपतयो दशधा असुरनागादयः व्यन्तरा अष्टविधा पिशाचादयः ज्योतिष्काः पञ्चधा चन्द्रादयः वैमानिका द्विधाहै कल्पोपगाः कल्पातीताथ, कल्पोपगा द्वादशधा सौधर्मादिभेदात्, कल्पातीता द्वेधा-वेयका अनुत्तरोपपातिकाश्च
5454545कल
दीप अनुक्रम [२३४-२३७]
REnamrdina
~ 273~