________________
आगम
(०४)
प्रत
सूत्रांक
[१४४]
दीप
अनुक्रम
[२२५]
“समवाय” - अंगसूत्र-४ (मूलं + वृत्तिः )
मूलं [१४४]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Jain Educator
समवाय [प्रकिर्णका:],
भवनपतिभ्यन्तराणां राजादिमनुजानां च अथवा अनुत्तरोपपातिकसाधूनां ऋद्धिविशेषा देवादिसम्बन्धिनस्तादृशा आख्यायन्त इति क्रियायोगः, तथा पर्षदां च 'संजयवेमाणित्थी संजर पुत्रेण पविसिउं वीर' मित्यादिनोक्तखरूपाणां प्रादुर्भावाश्च - आगमनानि क ? - 'जिणसमीवं 'ति जिनसमीपे यथा येन च प्रकारेण पञ्चविधाभिगमादिना उपासते - सेवन्ते राजादयो जिनवरं तथाऽऽख्यायत इति योगः, यथा च परिकथयति धर्म्म लोकगुरुरिति - जिनवरोऽमरनरासुरगणानां श्रुत्वा च तस्येति - जिनवरस्य भाषितं अवशेषाणि क्षीणप्रायाणि कर्माणि येषा ते तथा ते च ते विषयविरक्ताश्चेति अवशेषकर्मविषयविरक्ताः, के ? - नराः, किं ? - यथा अभ्युपयन्ति धर्म्ममुदारं, किंखरूपमत आह-संयमं तपश्चापि किम्भूतमित्याह - बहुविधप्रकारं, तथा यथा बहूनि वर्षाणि 'अणुचरित' ति अनुचर्य आसेव्य संयमं तपश्वेति वर्त्तते, तत आराधितज्ञानदर्शनचारित्रयोगास्तथा 'जिणवयण मणुगय महिय भासिय त्ति जिनवचनं - आचारादि अनुगतं सम्बद्धं नाद्देवितर्दमित्यर्थः महितं- पूजितमधिकं वा भाषितं वैरध्यापनादिना ते तथा, पाठान्तरे जिनवचनमनुगत्या-आनुकूल्येन सुष्ठु भाषितं यैस्ते जिनवचनानुगतिसुभाषिताः, तथा 'जिणवराण हियएणमणुण्णेत 'त्ति इति षष्ठी द्वितीयार्थे तेन जिनवरान् हृदयेन मनसा अनुनीय-प्राप्य ध्यात्वेतियावत्, ये च यत्र यावन्ति च भक्तानि छेदयित्वा लब्ध्वा च समाधिमुत्तमं ध्यानयोगयुक्ताः उपपन्ना मुनिवरोत्तमा यथा अनुत्तरेषु तथा आख्यायन्त इति प्रक्रमः, तथा प्राप्नुवन्ति यथाऽनुत्तरं 'तत्य'त्ति अनुत्तरविमानेषु विषयसुखं तथाऽऽख्यायन्ते इति योगः, 'तत्तो य'त्ति अनुत्त
अनुत्तरोपपातिकदशा अंगसूत्रस्य शाश्त्रीयपरिचय:,
For Parts Only
~ 249~
norary org