________________
आगम
(०४)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम
[१४९ ]
मुनि दीपरत्नसागरेण संकलित
श्रीसमवायांगे
श्री अभय
वृत्तिः
॥ ८२ ॥
“समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः )
मूलं [७१]
आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
समवाय [७१],
Eucation Internationa
तथा आदित्यसंवत्सरे दिनानां शतत्रयं षट्षष्टिश्च भवन्ति, तत्रितये च सहस्रमष्टनवत्यधिकं भवति, इह च किल चन्द्रयुगमादित्ययुगं चाषाढ्यामेकं पूर्यतेऽपरञ्च श्रावणकृष्णप्रतिपदि आरभ्यते, एवं चादित्ययुगसंवत्सरत्रयापेक्षया चन्द्रयुगसंवत्सरत्रयं पञ्चभिर्दिनैः षट्पञ्चाशता च दिनद्विषष्टिभागैरूनं भवतीतिकृत्वा आदित्ययुगसंवत्सरत्रयं श्राव४ णकृष्णपक्षस्य चन्द्रदिनषट् के साधिके पूर्वते युगसंवत्सरत्रयं त्वाषाढ्यां, ततश्च श्रावण कृष्णपक्षसप्तमदिनादारभ्य दक्षिणायनेनादित्यश्चरन् चन्द्रयुगचतुर्थसंवत्सरस्य चतुर्थमासान्तभूतायामष्टादशोत्तरशततमदिनभूतायां कार्तिक्यां द्वादशो|त्तरशततमे स्वकीयमण्डले चरति, ततश्चान्यान्येकसप्ततिर्मण्डलानि तावत्स्वेव दिनेषु मार्गशीर्षादीनां चतुर्णां हेमन्तमासानां सम्बन्धिषु चरति, ततो द्विसप्ततितमे दिने माघमासे बहुलपक्षत्रयोदशीलक्षणे सूर्य आवृत्तिं करोति, दक्षिणायनान्निवृत्त्योत्तरायणेन चरतीत्यर्थः, उक्ता च ज्योतिष्करण्डके पञ्चसु युगसंवत्सरेषूत्तरायणतिथयः क्रमेणैवं यदुत"बहुलस्स सत्तमीए १ सूरो सुद्धस्स तो चउत्थीए २ । बहुलस्स व पाडियए ३ बहुलस्स य तेरसीदिवसे ४ ॥ १ ॥ सुद्धस्स य दसमीए ५ पवत्तए पंचमी उ आउट्टी। एआ आउट्टीओ सबाओ माघमासंमि ॥ २ ॥” ति, दक्षिणायनदिनानि चैवं- "पढमा बहुलपडिवए १ बीया बहुलस्स तेरसी दिवसे २ । सुद्धस्स य दसमीए ३ बहुलस्स व सत्तमीए ४ उ ॥ १ ॥ सुद्धस्स चउत्थीए पवत्तए पंचमी उ आउट्टी । एया जाउट्टीओ सजाओ सावणे मासे ॥ २ ॥” त्ति । 'विरियपुवस्स' त्ति तृतीयपूर्वस्य 'पाहुड' त्ति प्राभृतमधिकारविशेषः । 'अजिए' इत्यादि, तस्य हि अष्टादश पूर्वलक्षाणि
For Parts Only
~ 168~
७१ सम बाया.
॥ ८२ ॥
harya