________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [३०], -------
--------- मूलं [३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
Ca
प्रत सूत्रांक
:
दीप
खतोऽन्यतथोपकारं न करोति, कृत्यमुपेक्षते इत्यर्थः, केनाभिप्रायेणेत्याह-ममाप्येष न करोति किंचनापि कृत्यं । |समर्थोऽपि सन्विद्वेषेण, असमर्थों वाऽयं बालवादिना किं कृतेनास्य ?, पुनरुपकर्तुमशक्तत्वादिति लोभेनेति, 'शठः'। | कैतवयुक्तः शक्तिलोपनात् निकृतिः-माया तद्विषये प्रज्ञानं यस्य स तथा, ग्लानः प्रतिचरणीयो मा भवत्विति ग्लानवेषमहं करोमीति विकल्पबानित्यर्थः, अत एव च कलुषाकुलचेताः आत्मनश्चाबोधिको-भवान्तराप्राप्तव्यजिनधमको ग्लानाप्रतिजागरेणाज्ञाविराधनात् , चशब्दात्परेषां चाबोधिकः अविद्यमाना बोधिरस्मादिति व्युत्पादनात्, ये हि तदीयं ग्लानाप्रतिजागरणमुपलभ्य जिनधर्मपराशुखा भवन्ति तेषामबोधिस्तत्कृतेति स एवम्भूतो महामोहं प्रकरोतीति पञ्चविंशतितम २५ । कथा-वाक्यप्रबन्धः शास्त्रमित्यर्थस्तद्रूपाण्यधिकरणानि कथाधिकरणानि-कौटिल्यशास्त्रादीनि प्राण्युपमर्दनप्रवकत्वेन तेषामात्मनो दुर्गतावधिकारित्वकरणात्, कथया वा क्षेत्राणि कृषत । गामसूयतेत्यादिकया अधिकरणानि तथाविधप्रवृत्तिरूपाणि, अथवा कथा-राजकथादिका अधिकरणानि च-यत्रादीनि कलहा वा कथाधिकरणानि तानि सम्प्रयुक्त पुनः पुनः एवं 'सर्वतीर्थभेदाय' संसारसागरतरणकारणत्वात् तीर्थानि-ज्ञानादीनि तेषां सर्वथा नाशाय प्रवर्त्तमानः स महामोहं प्रकरोतीति षड्विंशतितमं २६ । 'जे य आहम्मिए' कण्ठ्यम् , नवरं अधार्मिकयोगा-निमित्तवशीकरणादिप्रयोगाः किमर्थं?-लाघाहेतोः सखिहेतोः-मित्रनिमित्तमित्यर्थः इति सप्तविंशतितमं २७ । यश्च मानुष्यकान् भोगान् अथवा पारलौकिकान् 'ते'त्ति विभक्तिपरिणामात्तस्तेषु
R-RDCREAKHARA
अनुक्रम [६४-९९]
24
१०सम
REncanda
Arunmurary on
मोहनीय-स्थानानाम् त्रिंशत् भेदानाम् व्याख्या:
~ 113~