________________
आगम
(०१)
प्रत सूत्रांक
H
दीप
अनुक्रम
[-]
"आचार"
अंगसूत्र- १ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ - ], उद्देशक [-], मूलं [-], निर्युक्ति: [-] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०१], अंग सूत्र -[०१] "आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
| रान्तःपातित्वान्मङ्गलमिति एतच्चाभिलषितशास्त्रार्थस्थिरीकरणार्थम्, अवसानमङ्गलं नवमाध्ययनेऽवसानसूत्रम् 'अभिनिव्वुडे अमाई आवकहाए भगवं समियासी' अत्राभिनिर्वृतग्रहणं संसारमहातरुकन्दोच्छेद्यऽविप्रतिपच्या ध्यानकारिस्वान्मङ्गलमिति एतच्च शिष्यप्रशिष्यसन्तानाव्यवच्छेदार्थमिति, अध्ययनगत सूत्रमङ्गलत्वप्रतिपादनेनैवाध्ययनानामपि मङ्गलत्वमुक्तमेवेति न प्रतन्यते, सर्वमेव वा शास्त्रं मङ्गलं, ज्ञानरूपत्वात्, ज्ञानस्य च निर्जरार्थत्वात्, निर्जरार्थत्वेन च तस्याविप्रतिपत्तिः, यदुक्तम् - "जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेद उस्सासमित्तेर्ण ॥ १ ॥ मङ्गलशब्दनिरुक्तं च मां गायत्यपनयति भवादिति मङ्गलं मा भूङ्गलो विघ्नो गाठो वा नाशः शास्त्रस्येति मङ्गलमित्यादि, शेषं त्वाशेपपरिहारादिकमन्यतोऽवसेयमिति ।
-
साम्प्रतमाचारानुयोगः प्रारभ्यते - आचारस्यानुयोगः- अर्धकथनमाचारानुयोगः, सूत्रादनु-पश्चादर्थस्य योगोऽनुयोगः, सूत्राध्ययनात्यश्चादर्थकथनमिति भावना, अणोर्वा लघीयसः सूत्रस्य महताऽर्थेन योगोऽनुयोगः, स चामीभिर्द्वारैरनुगन्तव्यः, तद्यथा निक्खेवेगड निरुत्तिविहिपवित्तीय केण वा कस्स । तदारभेयलक्षण तदरिहपरिसा य सुत्तत्थो ॥ १ ॥ तत्र निक्षेपो-नामादिः सप्तधा, नामस्थापने क्षुण्णे, द्रव्यानुयोगो द्वेषा-आगमतो नोआगमतश्च तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतो ज्ञशरीर भव्यशरीर तव्यतिरिक्तोऽनेकधा, द्रव्येण-सेटिकादिना द्रव्यस्य- आत्मपरमाण्वादेर्द्रव्येनिषद्यादी वा अनुयोगो द्रव्यानुयोगः, क्षेत्रानुयोगः क्षेत्रेण क्षेत्रस्य क्षेत्रे वाऽनुयोगः क्षेत्रानुयोगः, एवं कालेन कालस्य
* प्रतिशिष्येति प्र. १ यदज्ञानी कर्म क्षपयति बहुकाभित्रकोटीमिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युवासमात्रेण ॥ १ ॥
Jan Education intemational
सूत्रस्य उपोद्घातः, आचारस्य अनुयोग:
For Prest Use Only
~7~#