________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [४], मूलं [२२६/गाथा-१७],नियुक्ति: [२८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा-
प्रत
उपधा०९ उद्देशका४
गाथा
(शी०)
[१७]
॥३१५॥
दीप अनुक्रम [३३४]
वरणीयमोहनीयान्तरायात्मके तिष्ठतीति छद्मस्थ इत्येवंभूतोऽपि विविधम्-अनेकप्रकारं सदनुष्ठाने पराक्रममाणो न प्रमाद -कषायादिकं सकृदपि कृतवानिति ॥ किं च-स्वयमेव-आत्मना तत्त्वमभिसमागम्य विदितसंसारस्वभावः स्वयंबुद्धः संस्तीर्थप्रवर्त्तनायोद्यतवान् , तथा चोक्तम्-"आदित्यादिविबुधविसरः सारमस्यां त्रिलोक्यामारकन्दन्तं पदमनुपमं यच्छिवं त्वामुवाच । तीर्थ नाथो लघुभवभयच्छेदि तूर्ण विधत्स्वेत्येतद्वाक्यं त्वदधिगतये नो किमु स्यानियोगः ॥१॥" इत्यादि, कथं तीर्थप्रवर्तनायोद्यत इति दर्शयति-'आत्मशुद्ध्या' आत्मकर्मक्षयोपशमोपशमक्षयलक्षणयाऽऽयतयोग-सुप्रणिहित मनोवाकायात्मकं विधाय विषयकषायाद्युपशमादिभिनिवृत्तः-शीतीभूतः, तथा अमायावी-मायारहित उपलक्षणार्थत्वादस्याक्रोधाद्यपि द्रष्टव्यं, 'यावत्कथ'मिति यावज्जीवं भगवान् पञ्चभिः समितिभिः समितः तथा तिसृभिगुप्तिभिगुप्तश्चासीदिति ॥ श्रुतस्कन्धाध्ययनोद्देशकार्थमुपसंजिहीर्षुराह-एषः-अनन्तरोक्तः शस्त्रपरिज्ञादेरारभ्य योऽभिहितः सोऽनुकान्तःअनुष्ठित आसेवनापरिज्ञया सेवितः, केन?-श्रीवर्द्धमानस्वामिना 'मतिमता' ज्ञानचतुष्टयान्वितेन बहुशः-अनेकशोऽप्रतिज्ञेन-अनिदानेन भगवता-ऐश्वर्यादिगुणोपेतेन, अतोऽपरोऽपि मुमुक्षुरनेनैव भगवदाचीर्णेन मोक्षप्रगुणेन पथाऽऽत्महितमाचरन् रीयते-पराक्रमते, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिने कथयति-सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दादर्थजातं निर्यातमवधारितमिति ॥ उक्तोऽनुगमः सूत्रालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः, साम्प्रतं नयाः, ते च नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूदैवभूतभेदभिन्नाः सामान्यतः सप्त, ते चान्यत्र सम्मत्यादी लक्षणतो विधानतश्च न्यक्षेणाभिहिता इति, इह पुनस्त एव ज्ञानक्रियानयान्तर्भावद्वारेण समासतः प्रो
।।३१५॥
www.taneltmanam
~634~#