________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [३], मूलं [२२६/गाथा-४],नियुक्ति: [२८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
उपधा०
श्रीआचा- राङ्गवृत्तिः (शी०)
उद्देशका
॥४||
दीप अनुक्रम [३०७]]
भगवानध्यासयति, सम्यगितः-सम्यग्भावं गतः समितिभिः समितो वेति ॥ किं च-'अथ' आनन्तर्ये दुःखेन चर्यतेस्मिन्निति दुश्चरः स चासौ लाढश्च-जनपदविशेषो दुश्चरलाढस्तं चीर्णवान्-विहृतवान् , स च द्विरूपो-वज्रभूमिः शुभ्रभूमिश्च, तं द्विरूपमपि विहृतवान्, तत्र च प्रान्ता 'शय्या' वसतिं शून्यगृहादिकामनेकोपद्रवोपद्रुता सेवितवान् , तथा प्रान्तानि
चासनानि-पांशूत्करशर्करालोष्टाद्युपचितानि च काष्ठानि च दुर्घटितान्यासेवितवानिति ॥ किं च-लाढा नाम जनपदिविशेषास्तेषु च द्विरूपेष्वपि लाढेषु 'तस्य' भगवतो बहव उपसगोंः प्रायशः प्रतिकूला आकोशश्वभक्षणादय आसन् ,
तानेव दर्शयति-जनपदे भवा जानपदा-अनार्याऽऽचारिणो लोकाः ते भगवन्तं लूषितवन्तो-दन्तभक्षणोल्मुकदण्डप्रहारा-15 दिभिर्जिहिंसुः, अथशब्दोऽपिशब्दार्थे, स चैवं द्रष्टव्यः, भक्तमपि तत्र 'रूक्षदेश्य' रूक्षकल्पमन्तप्रान्तमितियावत्, ते चानार्यतया प्रकृतिकोधनाः कर्पासाद्यभावत्वाच्च तृणप्रावरणाः सन्तो भगवति विरूपमाचरन्ति, तथा तत्र 'कुर्कुराः श्वानस्ते च जिहिंसुः, उपरि च निपेतुरिति ॥ किं च-'अल्प' स्तोकः स जनो यदि परं सहस्राणामेको यदिवा नास्त्येवासाविति यस्तान् शुनो लूषकान् दशतो 'निवारयति' निषेधयति, अपि तु दण्डप्रहारादिभिर्भगवन्तं हत्वा तोरणाय सीत्कुर्वन्ति, कथं नामैनं श्रमणं कुर्कुराः श्वानो दशन्तु-भक्षयन्तु !, तत्र चैवंविधे जनपदे भगवान् षण्मासावधि कालं| स्थितवानिति ॥ किं च
॥३१०॥
एलिक्खए जणा भुजो बहवे वजभूमि फरुसासी। लढेि गहाय नालियं समणा तत्थ य
JainEducatinintamational
~624~#