________________
आगम
(०१)
प्रत
सूत्रांक
||१६||
दीप
अनुक्रम [ ३०३]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ९ ], उद्देशक [२], मूलं [ २२६ / गाथा - १६], निर्युक्तिः [२८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा
शीतजनितं दुःखस्पर्शमनुभवन्ति, आर्त्तध्यानवशगा भवन्तीत्यर्थः तस्मिंश्च शिशिरे हिमकणिनि मारुते च प्रवाति सराङ्गवृत्तिः त्येके न सर्वे 'अनगाराः' तीर्थिकप्रव्रजिता हिमबाते सति शीतपीडितास्तदपनोदाय पावकं प्रज्वालयन्ति-अङ्गारशक(शी०) ४ टिकामन्वेपयन्ति, प्रावारादिकं याचन्ते यदिवाऽनगारा इति मार्श्वनाथतीर्थमत्रजिता गच्छवासिन एव शीतार्दिता निवातमेषन्ति षङ्गशालादिकावसतीर्वातायनादिरहिताः प्रार्थयन्ति । किं च इह सङ्घाटीशब्देन शीतापनोदक्षमं कल्प॥ ३०९ ॥ ४ द्वयं त्रयं वा गृह्यते, ताः सङ्घाटीः शीतार्दिता वयं प्रवेक्ष्यामः, एवं शीतार्दिता अनगारा अपि विदधति, तीर्थिकप्रव्रजितास्त्वेधाः समिधः काष्ठानीतियावद् एताश्च समादहन्तः शीतस्पर्श सोढुं शक्ष्यामः, तथा संघाच्या वा पिहिताः स्थगिताः कम्बलायांवृतशरीरा इति, किमर्थमेतत्कुर्वन्तीति दर्शयति-यतोऽतिदुःखमेतद्-अतिदुःसहमेतद्यदूत हिमसंस्पर्शाःशीतस्पर्शवेदना दुःखेन सान्त इतियावत् । तदेवमेवंभूते शिशिरे यथोक्त्तानुष्ठानवत्सु च स्वयूथ्येतरेष्वनगारेषु यक्षगवान् व्यधात्तद्दर्शयितुमाह- 'तस्मिन्' एवंभूते शिशिरे हिमवाते शीतस्पर्शे च सर्वकषे 'भगवान्' ऐश्वर्यादिगुणोपेतस्तं शीतस्पर्शमध्यासयति-अधिसहते, किंभूतोऽसौ ?- 'अप्रतिज्ञो' न विद्यते निवातवसतिप्रार्थनादिका प्रतिज्ञा यस्य स तथा, काध्यासयति ? - 'अधो विकटे' अधः-कुड्यादिरहिते छन्नेऽप्युपरि तदभावेऽपि चेति, पुनरपि विशिनष्टि-रागद्वेषविरहाद्रव्यभूतः कर्म्मग्रन्थिद्रावणाद्वा द्रवः-संयमः स विद्यते यस्यासौ द्रविकः, स च तथाऽध्यासयन् यद्यत्यन्तं शीतेन वाध्यते ततस्तस्मात् छन्नान्निष्क्रम्य बहिरेकदा रात्री मुहर्त्तमात्रं स्थित्वा पुनः प्रविश्य स भगवान् शमितया सम्यग्वा समतया वा व्यवस्थितः सन् तं शीतस्पर्श रासभदृष्टान्तेन सोढुं शक्नोति - अधिसहत इति ॥ एतदेवोद्देश कार्थमुपसंजिहीर्षु
Jan Estication mainl
For Pantry Use Only
~622~#
उपधा० ९
| उद्देशकः२
॥ ३०९ ॥