SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१३], नियुक्ति: [६७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१३] दीप अनुक्रम [१३] इति' एतदहं ब्रवीमि यत्यागुतं यच्च वक्ष्ये तत्सर्वं भगवदन्तिके साक्षात् श्रुत्वेति शस्त्रपरिज्ञायां प्रशमोद्देशकः समाप्तः॥ उक्तः प्रथमोद्देशक साम्प्रतं द्वितीयः प्रस्तूयते-अस्य चायमभिसम्बन्धः-प्रथमोद्देशके सामान्येन जीवास्तिवं प्रसा[धितम् , इदानीं तस्यैवेकेन्द्रियादिपृथिव्याधस्तित्वप्रतिपिपादयिषयाऽऽह-यदिवा प्राक् परिज्ञातकर्मत्वं मुनित्वकारणमुपादेशि, यः पुनरपरिज्ञातकर्मत्वान्मुनिर्न भवति-विरतिं न प्रतिपद्यते स पृथिव्यादिषु धम्भ्रमीति, अथ क एते पृथिव्यादय इत्यतस्तद्विशेषास्तित्वज्ञापनार्थमिदमुपक्रम्यत इति । अनेनाभिसम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्ने निक्षेपे पृथिव्युद्देशक इति, तत्रोद्देशकस्य निक्षेपादेरन्यत्र प्रतिपादितत्वान्नेह प्रदर्श्यते, पृथिव्यास्तु यन्निक्षेपादि सम्भवति तनियुक्तिकृद्दर्शयितुमाह पुढचीए निकखेचो परूवणालक्खणं परीमाणं । उपभोगो सत्थं वेयणा य वहणा निवित्तीय ॥१८॥ प्राग् जीवोद्देशके जीवस्य प्ररूपणा किं न कृतेत्येतच नाशङ्कनीयं, यतो जीवसामान्यस्य विशेषाधारत्वात् विशेषस्य च पृथिव्यादिरूपत्वात् सामान्यजीवस्य चोपभोगादेरसम्भवात् पृथिव्यादिचर्चयैव तस्य चिन्तितत्वादिति । तत्र पृथिव्या नामादिनिक्षेपो वक्तव्यः, प्ररूपणा-सूक्ष्मवादरादिभेदा, लक्षणं-साकारानाकारोपयोगकाययोगादिक, परिमाण-संवर्तिपातलोकप्रतरासंख्येयभागमात्रादिकम् , उपभोगः-शयनासनचङ्कमणादिकः, शस्त्रं-हाम्लक्षारादि, वेदना-स्वशरीराव्यक्त चेतनानुरूपा मुखदुःखानुभवस्वभावा, वधा-कृतकारितानुमतिभिरुपमईनादिकः, निवृत्तिः-अप्रमत्तस्य मनोवाकायगुप्याऽनुपमहादिकेति समासाथैः । व्यासार्थं तु नियुक्तिकृयथाक्रममाह wwwandltimaryam प्रथम अध्ययने द्वितीय: उद्देशक: 'पृथ्विकाय' आरब्धः, 'पृथ्वी' शब्दस्य निक्षेपा:, ~59~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy