________________
आगम (०१)
"आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [११], नियुक्ति: [६७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
A
[११]
दीप अनुक्रम
|दुर्गाद्युपयाचितमजादिना बलिं विधत्ते यशोधर इव पिष्टमयकुक्कुटेन, तथा मुक्त्यर्थमज्ञानावृतचेतसः पश्चाग्नितपोऽनुष्ठा-II नादिकेषु प्राण्युपमईकारिषु प्रवर्त्तमानाः कर्माददते, यदिवा जातिमरणयोविमोचनाय हिंसादिकाः क्रियाः कुर्वते । 'जाइमरणभोयणाए'त्ति वा पाठान्तरं, तत्र भोजनार्थ कृष्यादिकर्मसु प्रवर्त्तमाना वसुधाजलज्वलनपवनवनस्पतिद्वित्रिचतुप्पञ्चेन्द्रियव्यापत्तये व्याप्रियन्त इति । तथा दुःखप्रतिघातमुररीकृत्यात्मपरित्राणार्थमारम्भानासेवन्ते, तथाहि-व्याधिवेदनार्त्ता लावकपिशितमदिराद्यासेवन्ते, तथा वनस्पतिमूलत्वपत्रनिर्यासादिसिद्धशतपाकादितैलार्थमझ्यादिसमारम्भेण पापं कुर्वन्ति स्वतः कारयन्त्यन्यैः कुर्वतोऽन्यान् समनुजानत इत्येवमतीतानागतकालयोरपि मनोवाकाययोगैः कर्मादानं विदधतीत्यायोजनीयम् । तथा दुःखप्रतिघातार्थमेव सुखोत्सत्यर्थं च कलत्रपुत्रगृहोपस्कराद्याददते, तल्लाभपालनार्थं च तासु तासु क्रियासु प्रवर्त्तमानाः पापकर्मासेवन्त इति, उक्तं च-"आदौ प्रतिष्ठाऽधिगमे प्रयासो, दारेषु पश्चागृहिणः सुतेषु । कर्तुं पुनस्तेषु गुणप्रकर्ष, चेष्टा तदुबै पदलहनाय ॥१॥" तदेवंभूतैः क्रियाविशेषैः कर्मोपादाय नानादिश्वनुसञ्चरन्ति अनेकरूपासु च योनिषु सन्धावन्ति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयन्ति, इत्येतज्ज्ञात्वा क्रियाविशेषनिवृत्तिविधेयेति ॥११॥ एतावन्त एव च क्रियाविशेषा इति दर्शयितुमाह
एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति (सू०१२) 'एआवन्ती सव्यावन्तीति एतौ द्वौ शब्दो मागधदेशीभाषाप्रसिद्ध्या एतावन्तः सर्वेऽपीत्येतपर्यायौ, एतावन्त एव १मोक्षाया प्र.
C
HALISASS*
*********
wwwandltimaryam
कर्माश्रव-हेतुभूत क्रियाविशेषे प्रवर्तने जीवस्य हेत्ः, ते ते क्रिया:
~57~#