SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [२११] दीप अनुक्रम [२२४] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [४], मूलं [२११],निर्युक्ति: [२७५] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीआचाराङ्गवृत्तिः (शी०) ॥ २७७ ॥ काले कल्पत्रयेण सम्यक् शीतापनोदो भवत्यतश्चतुर्थे वस्त्रमहं याचिप्ये, अध्यवसायनिषेधे च तथाचनं दूरोत्सादितमेव, यदि पुनः कल्पत्रयं न विद्यते शीतकालश्चापतितस्ततोऽसौ जिनकल्पिकादिर्यथैषणीयानि वस्त्राणि याचेत उत्कर्षणापकर्षणरहितान्यपरिकर्माणि प्रार्थयेदिति, तत्र “उद्दिड १ पहे २ अंतर ३ उज्झियधम्मा ४ य" चतस्रो वस्त्रेषणा भवन्ति, तत्र चाधस्तन्योर्द्वयोरग्रह इतरयोस्तु ग्रहः, तत्राप्यन्यतरस्यामभिग्रह इति, याञ्जावाप्तानि च वस्त्राणि 4 ॐ यथापरिगृहीतानि धारयेत्, न तत्रोत्कर्षणधावनादिकं परिकर्म कुर्याद् ॥ एतदेव दर्शयितुमाह-नो धावेत्- १ प्रासुकोदकेनापि न प्रक्षालयेत्, गच्छ्वासिनो ह्यप्राप्तवर्षादौ ग्लानावस्थायां वा प्रासुकोदकेन यतनया धावनमनुज्ञातं, न तु जिनकल्पिकस्येति, तथा-न धौतरक्तानि वस्त्राणि धारयेत्, पूर्व धौतानि पश्चाद्रक्तानीति, तथा ग्रामान्तरेषु गच्छन् वस्त्राण्यगोपयन् त्रजेद्, एतदुक्तं भवति तथाभूतान्यसावन्तप्रान्तानि बिभर्ति यानि गोपनीयानि न भवन्ति, तदेवमसाववमचेलिकः, अवमं च तचेलं चावमचेलं प्रमाणतः परिमाणतो मूल्यतश्च तद्यस्यास्त्यसाववमचेलिक इत्येतत् पूर्वोक्तं 'खुः' अवधारणे, एतदेव वस्त्रधारिणः सामग्र्यं भवति- एषैव त्रिकल्पात्मिका द्वादशप्रकारौधिकोपध्यात्मिका वा सामग्री भवति, नापरेति ॥ शीतापगमे तान्यपि वखाणि त्याज्यानीत्येतद्दर्शयितुमाह Etication Intational अह पुण एवं जाणिजा उवाइकंते खलु हेमंते गिंम्हे पडिवन्ने अहापरिजुन्नाई वत्थाई परिट्ठविजा, अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले (सू० २१२) For Parts Only ~558~# विमो० ८ उद्देशकः४ ॥ २७७ ॥ www.indiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy