________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [१], मूलं [१९६...], नियुक्ति: [२६७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
A
प्रत
सूत्रांक [१९६]
ASACX4
दीप अनुक्रम २०९]
राद्धो भवेद-आरब्धो भवेत् तेन यन्मरणं तयाघातिमं, तत्र वृद्धवादायात आदेशो-दृष्टान्तः, यथा-तोसलिनामा-1|| चार्यों महिण्याऽऽरव्यश्चतुर्विधाहारपरित्यागेन मरणमभ्युपगतवान् एतद्व्याघातिमं मरणमिति गाथाऽक्षरार्थो, भावार्थस्तु। कथानकादवसेयः, तच्चेदम्-तोसलिनामाचार्योऽरण्यमहिषीभिःप्रारब्धः, तोसलिदेशे वा बढ्यो महिष्यः सम्भवन्ति, ताभिश्च कदाचिदेकः साधुरदव्यन्तर्वारब्धा, स च ताभिः क्षुद्यमानोऽनिर्वाहमवगम्य चतुर्विधाहारं प्रत्याख्यातवा-IN |निति ॥ साम्प्रतमव्याधातिमप्रतिपादनेच्छयाऽऽह
अणुपुब्बिगमाएसो पव्वजामुत्तअत्थकरणं च । वीसजिओ(य)निन्तो मुको तिविहस्स नीयस्स ॥२६८॥
आनुपूर्वी-क्रमस्तं गच्छतीत्यानुपूर्वीगा, कोऽसौ?-आदेशो-वृद्धवादः, स चाय, तद्यथा-पूर्वमुत्थितस्य प्रव्रज्यादानं, ततः सूत्रकरणं पुनरर्थग्रहणं, ततस्तदुभयनिर्मातः सुपात्रनिक्षिप्तसूत्रार्थः गुर्वादिनाऽनुज्ञातोऽभ्युद्यतो मरणत्रिकान्यतराय 'निर्यन्' निर्गच्छन् त्रिविधस्याहारोपधिशय्याख्यस्य नित्यपरिभोगान्नित्यस्य मुक्तो भवति, तत्र यद्याचार्यस्तदा शिष्यान्निप्याद्याऽपरमाचार्य विधायोत्सर्गेण द्वादशसांवत्सरिक्या संलेखनया संलिख्य ततो गच्छविसर्जितो गच्छानुज्ञया स्वस्थापिताचार्यविसर्जितो वा अभ्युद्यतमरणायापराचार्यान्तिकमियात् , एवमुपाध्यायः प्रवर्तिः स्थविरो गणावच्छेदकः सामान्यसाधुर्वाऽऽचार्यविसर्जितः कृतसंलेखनापरिका भक्तपरिज्ञादिकं मरणमभ्युपेयात्, तत्रापि भावसंलेखनां कुर्यात् ।। द्रव्यसंलेखनायां तु केवलायां दोषसम्भवादित्याहपडिचोइओ य कुविओ रणोजह तिक्ख सीयला आणा। तंबोले य विवेगो घट्टणया जा पसाओ य ॥२६॥
%
%*5
~529~#