________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [१], मूलं [१९६...],नियुक्ति: [२६३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१९६]
दीप अनुक्रम २०९]
यथा समाधिर्भवेत्तथाऽनशनं प्रतिपद्यते, तथेङ्गिते प्रदेशे मरणमिङ्गितमरणमिदं चतुर्विधाहारनिवृत्तिस्वरूपं विशिष्टसंहननवतः स्वत एवोद्वर्तनादिक्रियायुक्तस्थावगन्तब्यं, तथा परित्यक्तचतुर्विधाहारस्यैवाधिकृतचेष्टाव्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्पतिकर्मशरीरस्य पादपस्येवोप-सामीप्येन गमन-वत्तनं पादपोपगमनमेतच्च ज्ञातव्यं भवति, यो हि भवसिद्धिकश्चरम-अन्तिम मरणमाश्रित्य म्रियते स एतत्पूर्वोक्तत्रयान्यतरेण मरणेन बियते, नान्येन वैहानसादिना बालमरणनेत्येतवानन्तरोक्तं मरणं चेष्टाभेदोपाधिविशेषात् त्रैविध्यमनुभवावमोक्षं विजानीहीति गाथार्थः ।। साम्प्रतमेतदेव मरणं सपराक्रमेतरभेदाद् द्विविधमिति दर्शयितुमाह
सपरिक्कमे य अपरिकमए य वाघाय आणुपुष्वीए । सुत्तत्थजाणएणं समाहिमरणं तु कायव्वं ॥ २६४ ॥ । 'पराक्रमः' सामर्थ्य सह पराक्रमेण वर्तत इति सपराक्रमस्तस्मिंश्च मरणं स्यात्, तद्विपर्यये चापराक्रमे-जावलपरिक्षीणे तद्भक्तपरिक्षेङ्गितमरणपादपोपगमनभेदात्रिविधमपि मरणं सपराक्रमेतरभेदात् प्रत्येक द्वैविध्यमनुभवति, तदपि
व्याघातिमेतरभेदात् द्विधा भवेत् , तत्र व्याघातः सिंहव्याघ्रादिकृतोऽव्याघातस्तु प्रव्रज्यासूत्रार्थग्रहणादिकयाऽऽनुपूर्व्या ६ विपक्रिममायुष्कक्षयमनुभवतो यो भवति सोऽव्याघात इहानुपूर्वीत्युक्त, तत्र परमार्थोपक्षेपेणोपसंहरति-व्याघातेनानु
पूर्व्या वा सपराक्रमस्यापराक्रमस्य वा मरणे समुपस्थिते सति सूत्रार्थज्ञेन कालज्ञतया समाधिमरणमेव कर्त्तव्यं, भक्तप
रिज्ञेजितमरणपादपोपगमनानामन्यतरद् यथासमाधि विधेयं, न वेहानसादिकं बालमरणं कर्त्तव्यमिति गाथार्थः । तत्र द सपराक्रममरणं दृष्टान्तद्वारेण दर्शयितुमाह
*कर
~527~#