________________
आगम
(०१)
प्रत
सूत्रांक
[१९६]
दीप
अनुक्रम [२०९ ]
Jan Estication
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [१], मूलं [१९६...],निर्युक्तिः [२५७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र -[०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
अणुपुव्विविहारीणं भत्तपरिन्ना य इंगिणीमरणं । पायवगमणं च तहा अहिगारो होइ अट्टमए ॥ २५७ ॥
अत्राद्योद्देशकेऽयमर्थाधिकारः, तद्यथा - असमनुज्ञानाम- समनोज्ञानां वा त्रयाणां त्रिषष्ट्यधिकानां प्रावादुकशतानां | विमोक्षः परित्यागः कार्यः, तथा तदाहारोपधिशय्यातद्दृष्टिपरित्यागश्च पार्श्वस्थादयः पुनश्चारित्रतपोविनयेध्वसमनोज्ञाः, यथाच्छन्दास्तु पञ्चस्वपि ज्ञानाचारादिष्वसमनोज्ञास्तेषां यथायोगं त्यागो विधेय इति १ । द्वितीये तु अकल्पिकस्य-आधा| कर्म्मादेर्विमोक्षः- परित्यागः कार्यो, यदिवाऽऽधाकर्म्मणा कश्चिन्निमन्त्रयेत्, ततः प्रतिषेधो विधेयः, तत्प्रतिषेधे च रुष्टस्य सतः सिद्धान्तसद्भावः कथनीयो यथैवम्भूतं दानं तव मम च न गुणायेति २ तृतीये तूदेशकेऽयमर्थाधिकारः, तद्यथागोचरगतस्य यतेः शीतादिना कम्पनादिकायामङ्गचेष्टायां सत्यां गृहस्थस्येयमारेका स्याद् यथा- ग्राम धम्मैरुद्वाध्यमानस्य शृङ्गारभावावेशादस्य यतेः कम्पनमित्येवं भाषिते आशङ्किते वा तदाशङ्काव्युदासाय यथावस्थितार्थकथना क्रियत इति ३ । | शेषेषु तूदेशकेषु पञ्चस्वयमर्थाधिकारः, तद्यथा-उपकरणशरीराणां विमोक्षः परित्यागस्तद्विषयः समासतो व्यासतस्तूच्यतेचतुर्थीदेशके त्वयमर्थाधिकारः, तद्यथा-वैहानसम् उद्बन्धनं गार्द्धपृष्ठम् - अपरमांसादिहृदयन्यासाद्दृद्धादिनाऽऽत्मव्यापादनम् एतत् प्रकारद्वयं मरणं वाच्यं ४ । पञ्चमके तुग्लानता भक्तपरिज्ञा च बोद्धव्या ५। पृष्ठे त्वेकत्वम् एकत्वभावना तथेङ्गितमरणं च बोद्धव्यं ६ । सप्तमकेषु प्रतिमाः - भिक्षुप्रतिमा मासादिका वाच्याः, तथा पादपोपगमनं च ज्ञातव्यमिति ७ । अष्टमके त्वयमर्थाधिकारः, स्तद्यथा - अनुपूर्वविहारिणां प्रतिपालितदीर्घ संयमानां शास्त्रार्थग्रहणप्रतिपादनोत्तरकालमवसीदत्संयमाध्ययनाध्यापनक्रियाणां निष्पादितशिष्याणामुत्सर्गतः द्वादशसंवत्सरसंलेखनाक्रमसंलिखितदेहानां भक्तपरिज्ञेङ्गित
For Pantry Use Only
~523~#