________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [३], मूलं [१८५],नियुक्ति: [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचाराङ्गवृत्तिः (शी०)
धुता०६ उद्देशका
सूत्रांक [१८५]
॥२४५॥
दीप अनुक्रम [१९८]
ज्ञात्वेत्यर्थः, कथमिति चेत् तदुच्यते-'सर्वत' इति द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः आहारोपकरणादौ क्षेत्रतः सर्वत्र ग्रामादौ कालतोऽहनि रात्री वा दुर्भिक्षादौ वा सर्वात्मनेति भावतः कृत्रिमकल्काद्यभावेन, तथा 'सम्यक्त्व'|मिति प्रशस्तं शोभनं एक समतं वा तत्त्वं सम्यक्त्वं, यदुक्तम्-"प्रशस्तः शोभनश्चैव, एकः सङ्गत एव च । इत्येतैरुप
सृष्टस्तु, भावः सम्यक्त्वमुच्यते ॥१॥" तदेवम्भूतं सम्यक्त्वमेव समत्वमेव वा 'समभिजानीयात्' सम्यगाभिमुख्येन| जानीयात्-परिच्छिन्द्यात्, तथाहि-अचेलोऽप्येकचेलादिक नावमन्यते, यत उक्तम्-"जोऽवि दुवत्थतिवत्थो एगेण अचेलगो व संघरइ । ण हु ते हीलंति परं सब्वेऽवि य ते जिणाणाए ॥१॥" तथा-"जे खलु विसरिसकप्पा संघयण|धियादिकारणं पप्प । णऽवमन्नाइ ण यहीणं अप्पाणं मन्नई तेहिं ॥ २॥ सम्वेऽवि जिणाणाए जहाविहिं कम्मखवणअहाए । विहरति उज्जया खलु सम्म अभिजाणई एवं ॥३॥" ति, यदिवा तदेव लाघवमभिसमेत्य सर्वतो द्रव्यादिना सर्वात्मना नामादिना सम्यक्त्वमेव सम्यगभिजानीयात्, तीर्थकरगणधरोपदेशात् सम्यकुर्यादिति तात्पयर्थिः । एतच्च | नाशक्यानुष्ठानं ज्वरहरतक्षकचूडालङ्काररत्नोपदेशवद्भवतः केवलमुपन्यस्यते, अपि त्वन्यै बहुभिश्चिरकालमासेवितमित्येत. दर्शयितुमाह-'एवम्' इत्यचेलतया पर्युषितानां तृणादिस्पर्शानधिसहमानानां तेषां महावीराणां सकललोकचमत्कृतिकारिणां 'चिररात्र' प्रभूतकालं यावज्जीवमित्यर्थः, तदेव विशेषतो दर्शयति-'पूर्वाणि' प्रभूतानि वर्षाणि 'रीयमाणानां'
योऽपि द्विवनविन एकैन अचेलको या निर्षति । नैव हीव्यति पर सर्वेऽपि च ते जिनाशायाम् ॥१॥ये मल विसरशकल्पाः संहननभूत्यादिकारण प्राप्य । नायमन्यते न च हीनमात्मानं मन्यते वेभ्यः ॥२॥ सर्वेऽपि जिनाज्ञायां यथाविधि कर्मक्षपणार्थं । विहरम्स्युयताः सल सम्बगभिजानात्येवम् ॥३॥
॥२४५॥
wwwandltimaryam
~494-23