________________
आगम
(०१)
प्रत
सूत्रांक
[१८०]
दीप
अनुक्रम [१९३]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ६ ], उद्देशक [१], मूलं [१८०],निर्युक्ति: [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
कहती विघटितमोहकपाटः सन् रतिं कुर्यादिति १ । उपसंहारमाह- 'एतत् पूर्वोक्तं ज्ञानं सदा आत्मनि 'सम्यगनुवासयेः' व्यवस्थापयेः, इतिरधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववत् । धूताध्ययनस्य प्रथमोदेशकः समाप्तः ॥
उक्तः प्रथमोदेशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः इहानन्तरोदेशके निजकविधूनना प्रतिपादिता, सा चैवं फलवति स्याद्यदि कर्म्मविधूननं स्याद्, अतः कर्म्मविधूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम् -
आउरं लोगमायाए चइता पुव्वसंजोगं हिच्चा उवसमं वसित्ता बंभचेरंसि वसु वा अ
वसु वा जाणि धम्मं अहा तहा अहेगे तमचाइ कुसीला ( सू० १८१ )
'लोकं' मातापितृपुत्रकलत्रादिकं तमातुरं स्नेहानुषङ्गतया वियोगात् कार्यावसादेन वा यदिवा जन्तुलोकं कामरागातुरम् 'आदाय' ज्ञानेन 'गृहीत्वा' परिच्छिद्य तथा त्यक्त्वा च 'पूर्वसंयोगं' मातापित्रादिसम्बन्धं, तथा' हित्वा गत्वोपशमं उषित्वापि ब्रह्मचर्ये, किम्भूतः सन्निति दर्शयति-वसु द्रव्यं तद्भूतः कषायकालिकादिमलापगमाद्वीतराग इत्यर्थः, तद्विपर्ययेणानुबसु सराग इत्यर्थः, यदिवा वसुः साधुः अनुवसुः श्रावकः, तदुक्तम्- "वीतरागो वसुर्ज्ञेयो, जिनो वा संयतोऽथवा । सरागो ह्यनुवसुः प्रोक्तः, स्थविरः श्रावकोऽपि वा ॥ १ ॥ " तथा ज्ञात्वा ' श्रुतचारित्राख्यं
Jan Estication tumanl
षष्ठं- अध्ययने द्वितीय उद्देशक: 'कर्मविधुनन' आरब्ध:,
For Parts Only
~483~#
www.isenditary.org