________________
आगम
(०१)
प्रत
सूत्रांक
[१७९]
दीप
अनुक्रम [१९२]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ६ ], उद्देशक [१], मूलं [१७९],निर्युक्ति: [२५२] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
लेहिं अभिसेएण अभिसंभूया अभिसंजाया अभिनिव्बुडा अभिसंबुड्ढा अभिसंबुद्धा अभिनिता अणुपुव्वेण महामुणी ( सू० १७९ )
'भोः' इति शिष्यामन्त्रणं, यदहमुत्तरत्रावेदयिष्यामि भवतस्तद्' 'आजानीहि' - अवधारय, 'शुश्रूषस्व' श्रवणेच्छां विघेहि 'भो:' इति पुनरप्यामन्त्रणमर्थगरीयस्त्वख्यापनाय नात्र भवता प्रमादो विधेयो, धूतवादं कथयिष्याम्यहं, धूतम्अष्टप्रकारकर्म्मधूननं ज्ञातिपरित्यागो वा तस्य वादो धूतवादः तं प्रवेदयिष्यामि, अवहितेन च भवता भाव्यमिति । नागार्जुनीयास्तु पठन्ति – “धुतोवायं पवेयंति" अष्टमकारकर्म्मधूननोपायं निजघूननोपार्य वा प्रवेदयन्ति तीर्थकरादयः । कोऽसावुपाय इत्यत आह- 'इह' अस्मिन् संसारे 'खलुः' वाक्यालङ्कारे आत्मनो भाव आत्मता - जीवास्तिता स्वकृतकर्म्मपरिणतिर्वा तयाऽभिसम्भूताः सञ्जाताः, न पुनः पृथिव्यादिभूतानां कायाकारपरिणामतया ईश्वरप्रजापतिनियोगेन वेति तेषु तेषूच्चावचेषु कुलेषु यथास्वं कम्र्मोदयापादितेषु 'अभिषेकेण शुक्रशोणितनिषेकादिक्रमेणेति, तत्रायं क्रमः - "सप्ताहं कललं विन्द्यात्ततः सप्ताहमर्बुदम् । अर्बुदाज्जायते पेशी, पेशीतोऽपि घनं भवेत् ॥ १ ॥” इति तत्र | यावत्कललं तावदभिसम्भूताः, पेशीं यावदभिसञ्जाताः, ततः साङ्गोपाङ्गस्नायुशिरोरोमादिक्रमाभिनिवर्त्तनादभिनिर्वृत्ताः, ततः प्रसूताः सन्तोऽभिसंवृद्धाः, धर्म्मश्रवणयोग्यावस्थायां वर्त्तमाना धर्मकथादिकं निमित्तमासाद्योपलब्धपुण्यपापतयाऽभिसम्बुद्धाः, ततः सदसद्विवेकं जानानाः अभिनिष्क्रान्ताः, ततोऽधीताचारादिशास्त्रास्तदर्थ भावनोपबृंहितचर
Etication national
For Pantry Use Only
~481 ~#