________________
आगम
(०१)
प्रत
सूत्रांक
[१७७]
दीप
अनुक्रम [१९०]
श्रीआचा
राङ्गवृत्तिः
(शी०)
॥ २३६ ॥
* ८८०
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ६ ], उद्देशक [१], मूलं [१७७],निर्युक्ति: [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
च्यवनावसानेनावेदितोऽपि पुनरपि तद्गरीयस्त्वख्यापनाय प्राणिनां संसारे निर्वेदवैराग्योत्पत्त्यर्थमभिधित्सुकाम आह तं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया, तामेव सई असई अइअ च उच्चावयफासे पडिसंवेएइ, बुद्धेहिं एयं पवेइयं संति पाणा वासगा रसगा उदए उदचरा आगासगामिणो पाणा पाणे किलेसंति, पास लोए महन्भयं ( सू० १७७ ) 'तं' कर्म्मविपाकं यथावस्थितं तथैव ममावेदयतः शृणुत यूयं तद्यथा-नारकतिर्यङ्नरामरलक्षणाश्चतस्रो गतयः, तत्र नरकगतौ चत्वारो योनिलक्षाः पञ्चविंशतिकुल कोटिलक्षाः त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः वेदनाश्च परमाधार्मिकपरस्परोदीरितस्वाभाविकदुःखानां नारकाणां या भवन्ति ता वाचामगोचराः, यद्यपि लेशतश्चिकथयिषोरभिधेयविपयं न वागवतरति तथाऽपि कर्म्मविपाकावेदनेन प्राणिनां वैराग्यं यथा स्यादित्येवमर्थं श्लोकैरेव किञ्चिदभिधीयते-“श्रवणलवनं नेत्रोद्धारं करक्रमपाटनं, हृदयदहनं नासाच्छेदं प्रतिक्षणदारुणम् । कटविदहनं तीक्ष्णापातत्रिशूलविभेदनं, दहनवदनैः कङ्केघोरैः समन्तविभक्षणम् ॥ १॥ तीक्ष्णैरसिभिर्दीप्तैः कुन्तैर्विषमैः परश्वधैश्वकैः । परशुत्रिशूलमुद्गरतोमरवासीमुषण्डीभिः ॥ २ ॥ सम्भिन्नतालुशिरस छिन्नभुजारिछन्नकर्णनासौष्ठाः । भिन्नहृदयोदरान्त्रा भिन्नाक्षिपुटाः सुदुःखार्त्ताः ॥ ३ ॥ निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं नैरयिकाः कर्म्मपटलान्धाः ॥ ४ ॥ छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषवीचि (वच्छु)भिः परिवृताः संभक्षणव्यापृतैः । पाठ्यन्ते
Jan Estication Intational
For Prata Use Only
धुता० ६ उद्देशकः१
~476~#
।। २३६ ॥
मूल सम्पादकेन अत्र सूत्रक्रम- १७७ अलिखित, तन्मध्ये सूत्र - क्रम १७३ १७६ न दृश्यते (आद्य संपादक यहाँ सिर्फ सूत्र १७३ से १७६ का क्रम ना भूल गए है, मेटर के सम्पादनमे कोई भूल नहीं है )