________________
आगम (०१)
***
प्रत
सूत्रांक
[ १७२ ]
गाथा१...३
दीप
अनुक्रम
| [१८६... १९०]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ६ ], उद्देशक [१], मूलं [१७२], निर्युक्ति: [२५२ ] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
२१ मालावानित्यादि, अथवेत्येतत्प्रतिरोगमभिसम्बध्यते, अथवा राजांसी अपस्मारीत्यादि, अथवा तथा - 'कुष्ठी' कुष्ठमष्टादशभेदं तदस्यास्तीति कुष्ठी, तत्र सप्त महाकुष्ठानि, तद्यथा-अरुणोदुम्बरनिश्यजिह्न कपालकाकनादपौण्डरीकदद्रुकुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाच्चेति, एकादश क्षुद्रकुष्ठानि, तद्यथा-स्थूलारुष्क १ महाकुष्ठै २ ककुष्ठ ३चर्मदल ४ परिसर्प ५ विस ६ सिध्म ७ विचर्चिका ८ किटिभ ९ पामा १० शतारुक ११ संज्ञानीति, सर्वाण्यप्यष्टादश, सामान्यतः कुष्ठं सर्वं सन्निपातजमपि वातादिदोषोत्कटतया तु भेदभाग्भवतीति । तथा राजांसो - राजयक्ष्मा सोऽस्यास्तीति राजांसी, क्षयीत्यर्थः, स च क्षयः सन्निपातजश्चतुर्भ्यः कारणेभ्यो भवति इति, उक्तं च-- "त्रिदोषो जायते यक्ष्मा, गदो हेतुचतुष्टयात् । वेगरोधात् क्षयाच्चैव, साहसाद्विषमाशनात् ॥ १ ॥” तथा अपस्मारो वातपित्तश्लेष्मसन्निपातजत्वाच्चतुर्द्धा तद्वानपगतसदसद्विवेकः भ्रममूर्च्छादिकामवस्थामनुभवति प्राणीति, उक्तं च- "भ्रमावेशः ससंरम्भो, द्वेषोद्रेको हृतस्मृतिः । अपस्मार इति ज्ञेयो, गदो घोरश्चतुर्विधः ॥ १॥" तथा 'काणियं'ति अक्षिरोगः, स च द्विधा-गर्भगतस्योत्पद्यते जातस्य च तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति, तदेवैकाक्षिगतं काणं विधत्ते, तदेव रक्तानुगतं रक्ताक्षं | पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्काक्षं वातानुगतं विकृताक्षं, जातस्य च वातादिजनितोऽभिष्यन्दो भवति, तस्माच्च सर्वे रोगाः प्रादुष्ष्यन्तीति, उक्तं च - " वातात्पित्त कफाद्रक्तादभिष्यन्दश्चतुर्विधः । प्रायेण जायते घोरः, सर्वनेत्रामयाकरः ॥ १ ॥” इति, तथा - 'झिमियं ति जायता सर्वशरीरावयवानामवशित्वमिति, तथा 'कुणियं'ति गर्भाधानदोषाद्
१ अपगतः स्मारः स्मरणं यस्मात् सः अपस्मारः तस्मिन्सति तद्योगिणः सर्वविषया स्मृतिः नदयति
Jan Estication Intimational
For Pantry Use Only
~473 ~#