________________
आगम (०१)
प्रत
सूत्रांक
[१६७]
दीप
अनुक्रम [१८०]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [६], मूलं [ १६७ ], निर्युक्ति: [ २४९ ] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
।। २२८ ।।
श्रीआचा- तथाच सति पूर्वकालक्षणावस्थायित्वमेव कारणत्वम्, एवं च सर्वे सर्वस्य कारणं स्यात्, सर्वस्य पूर्वकालक्षणावस्थाविराङ्गवृत्तिः त्वाद्यत्किञ्चिदेतदिति, किं च - " यज्जातमात्रमेव प्रध्वस्तं तस्य का क्रिया कुम्भे ? । नोत्पन्नमात्रभने क्षिप्तं सन्तिष्ठते वारि (शी०) २२ ॥ १ ॥ कर्त्तरि जातविनष्टे धर्माधर्मक्रिया न सम्भवति । तदभावे बन्धः को बन्धाभावे च को मोक्षः १ ॥ २ ॥” इ त्यादि । वार्हस्पत्यानां तु भूतवादेनात्म पुण्यपापपरलोकाभाववादिनां निर्म्मर्यादतथा जनतातिगानां न्यक्कारपदव्याधानमनुत्तरमेवोत्तरमिति । अपि च - " अब्रह्मचर्यरतैर्मूढैः परदारघर्षणाभिरतैः । मायेन्द्रजालविषववर्त्तितमसत्किमध्येतत् ॥ १ ॥” तथा “ मिथ्या च दृष्टिर्भवदुःखधात्री, मिथ्यामतिश्चापि विवेकशून्या । धर्म्माय येषां पुरुषाधमानां, तेषामधर्मो भुवि कीदृशोऽन्यः १ ॥ २ ॥" इत्यनया दिशा सर्वेऽपि तीर्थिकवादाः सर्वज्ञवादमनुश्रित्य निराकार्या इति स्थितं । तन्निराकरणं च सर्वज्ञप्रवादं निराकार्ये च तीर्थिकप्रवादमेभिस्त्रिभिः प्रकारैर्जानीयादित्याह - मननं मतिः- ज्ञानं ज्ञानावरणीयक्षयक्षयोपशमान्यतरसद्भावानन्तरमेव सहसा - तत्क्षणमेव मत्या प्रातिभबोधावध्यादिज्ञानेन परिच्छिन्द्यात् सह वा ज्ञानेन ज्ञेयं सच्छोभनया मिथ्यात्व कलङ्काङ्करहितया मत्याऽवगच्छेत्, स्वपरावभासकत्वान्मतेरिति, कदाचित्पर| व्याकरणेनाप्यवगच्छेत् परः- तीर्थकृतस्य तेन वा व्याकरणं यथावस्थितार्थप्रज्ञापनम् आगमः परव्याकरणं तेन वा जानीयात्, तथाऽप्यनवगमेऽन्येषामाचार्यादीनां अन्तिके श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेद् ॥ अवधार्य च किं कुर्यादित्याह
Jain Estication Intl
For Pantry Use Only
~460 ~#
लोक० ५
उद्देशकः ६
॥ २२८ ॥
www.sendiary.org