________________
आगम
(०१)
प्रत
सूत्रांक
[१६५]
दीप
अनुक्रम [१७८ ]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [५] मूलं [ १६५ ], निर्युक्ति: [ २४९ ] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
पेत् । ननु चात्मनाऽनुसंवेदनमित्युक्तं, संवेदनं च सातासातरूपं तच्च यथा नैयायिकवैशेषिकाणामात्मनो भिन्नेन गुणभूतेनेकार्थसमवायिना ज्ञानेन भवति तथा भवतामप्याहोस्विदभिन्नेनात्मन इत्यस्य प्रतिवचनमाह
जे आया से विन्नाया जे विन्नाया से आया जेण वियाणइ से आया तं पहुच पडिसंखाए, एस आयावाई समियाए परियाए वियाहिए तिबेमि (सू० १६५) ॥ ५-५ ॥
. य आत्मा नित्य उपयोगलक्षणः विज्ञाताऽप्यसावेध, न तु पुनस्तस्मादात्मनो भिन्नं ज्ञानं पदार्थसंवेदकं, यश्च विज्ञाता -पदार्थानां परिच्छेदक उपयोगः आत्माऽप्यसावेव, उपयोगलक्षणत्वाज्जीवस्य उपयोगस्य च ज्ञानात्मकत्वादिति । ज्ञानात्मनोरभेदाभिधानाद्वौद्धाभिमतं ज्ञानमेवैकं स्यादिति चेत्, तन्न, भेदाभावोऽत्र केवलं चिकीर्षितो नैक्यं एतदेवैक्यं यो भेदाभाव इति चेद्, वार्त्तमेतत्, तथाहि पटशुक्लत्वयोर्भेदेनावस्थानाभावेऽपि नैकत्वापत्तिः, अत्रापि शुत्वव्यतिरेकेण नापरः पटः कश्चिदप्यस्तीति चेद्, अशिक्षितस्योलापो, यतः शुक्कुगुणविनाशे सर्वथा पटाभावापत्तिः स्यात्, तदात्मना विनष्ट एवेति चेत्, भवतु का नो हानिः १, अनन्तधर्मात्मकत्वाद्वस्तुनोऽपरमृद्वादिधर्म्मसद्भावे तद्धर्मविनाशेऽप्यविनष्ट एव इत्येवमात्मनोऽपि प्रत्युत्पन्नज्ञानात्मकतया विनाशेऽप्यपरामूर्त्तत्वा सङ्ख्येयप्रदेशताऽगुरुध्वादिधर्म्मसद्भावादविनाश एवेत्यलं प्रसङ्गेन । ननु च य आत्मा स विज्ञातेत्यत्र तृजन्तेन कर्तुरभिधानादात्मनश्च कर्तृत्वात्ततश्च य एवात्मा स एव विज्ञातेत्यत्र विप्रतिपत्त्यभावो, येन चासौ जानाति तद्भिन्नमपि स्यात्, तथाहि तत्करणं क्रिया वा भवेद् ?, यदि
Jan Estication national
For Party at Use Only
~455~#
www.indiary.org