________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [9], मूलं [१६०],नियुक्ति: [२४९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१६०]
दीप अनुक्रम [१७३]
आचार्यः प्रथमभङ्गपतितः पञ्चविधाचारसमन्वितोऽष्टविधाचार्यसम्पदुपेतः, [तद्यथा-"आयार सुअ सरीरे वयणे वा-- यण मई पभोगमई। एए सुसंपया खलु अडमिआ सङ्गहपरिन्ना ॥१॥"] पट्त्रिंशद्गणगणाधारो हदकल्पो निर्मलज्ञानप्रतिपूर्णः समे भूभाग इति संसक्तादिदोपरहिते सुखविहारे क्षेत्रे समो वा ज्ञानदशनचारित्राख्यो मोक्षमार्गः उपशमवतां तत्र तिष्ठति-समध्यास्ते, किंभूतः ?-'उपशान्तरजा' उपशान्तमोहनीय इति, किं कुर्वन् ?-जीवनिकायान् रक्षन् स्वतः परतश्च सदुपदेशदानतो नरकादिपाताद्वेति, 'स्रोतोमध्यगत' इत्यनेन प्रथमभङ्गपतितं स्थविराचार्यमाह, तस्य हि श्रुतार्थदानग्रहणसभावात् स्रोतोमध्यगतत्वम्, स च किम्भूतः स्यादित्याह-'सः' आचार्योऽक्षोभ्याइदकल्पः 'सर्वतः' सर्वप्रकारतयेन्द्रियनोइन्द्रियरूपया गुह्या गुप्त इत्येतत्पश्य आचार्यव्यतिरेकेणान्येऽप्येवम्भूता बहवः साधवः सम्भवन्तीत्येतन्निर्दिदिक्षुराह-रह मनुष्यलोके पूर्वव्यावर्णितस्वरूपाः 'महर्षयों' महामुनयः सन्ति, इत्येतत्पश्य, किम्भूतास्ते महर्षय इत्यत आह-न केवलमाचार्या इदकल्पा ये चान्ये साधवस्तेऽपि इदकल्पाः, किम्भूताः-प्रकर्षण ज्ञायतेऽनेनेति प्रज्ञानं-स्वपरावभासकत्वादागमस्तद्वन्तः प्रज्ञानवन्तः, आगमस्य वेत्तार इत्यर्थः, तज्ज्ञा अपि मोहोदयात् कचिद्धेतूदाहरणासम्भवे ज्ञेयगहनतया संशयानाः न सम्यक् श्रद्धानं विदध्युरित्यतो विशिनष्टि–'प्रबुद्धाः' प्रकर्षेण यथैव तीर्थकृदाह तथैवावगततश्चाः प्रबुद्धाः, तथाभूता अपि कर्मगुरुत्वान्न सावद्यानुष्ठानविरतिं कुर्युरित्यतो विशेषयति-आरम्भोपरताः' आरम्भः-सावद्यो योगस्तस्मादुपरता आरम्भोपरताः, एतच्च न मदुपरोधेन ग्राह्यम् अपि तु स्वत एव कु
१नाचारा श्रुतं दारीर वचनं वाचना मतिः प्रयोगमतिः । एताः सुसंपदः सल अष्टमी संप्रहपरिशा ॥१॥
wwwandltimaryam
~445~#