________________
आगम
(०१)
प्रत
सूत्रांक
[१५९]
दीप
अनुक्रम [१७२]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [४], मूलं [१५९], निर्युक्ति: [२४९] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा राङ्गवृत्तिः (शी०)
॥ २१९ ॥
त्रासङ्गः- संबन्धस्तत्करा भवन्ति, यदिवा कलहः- क्रोधः आसङ्गो - राग इत्यतो रागद्वेषकारिणो भवन्ति, यद्येवं ततः किं कुर्यादित्याह- ऐहिकामुष्मिकापायतः स्त्रीसङ्गप्रत्युपेक्षया 'आगमेत्त'ति ज्ञात्वा आज्ञापयेदात्मानमनासेवनयेति, इतिरधिकारपरिसमाप्तौ ब्रवीम्यहं तीर्थकरवचनानुसारेण दुःखं च ताः परिहर्तुमिति पुनरपि तत्परिहरणोपायमाह -- 'स' ४ स्त्रीसङ्गपरित्यागी खीनेपथ्यकथां शृङ्गारकथां वा नो कुर्यात् एवं च तास्त्यक्ता भवन्ति, तथा-तासां नरकवीथीनां स्वर्गापवर्गमार्गार्गलानामङ्गप्रत्यङ्गादिकं न पश्येत्, यतस्तन्निरीक्ष्यमाणं महतेऽनर्थाय भवतीति उक्तं च- "सन्मार्गे तावदास्ते प्रभवति पुरुषस्ताव देवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावलीलावतीनां न हृदि धृतिमुषो दृष्टिवाणाः पतन्ति ||१|| ” तथा-ताभिर्नरकविस्रम्भभूमिभिः सार्द्ध न सम्प्रसारणं पर्यालोचनमेकान्ते निजस्वस्रादिभिरपि कुर्यादिति, उक्तं च- "मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । चलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥ १ ॥ इत्येवमादि, तथा-न तासु स्वार्थपरासु ममत्वं कुर्यात्, तथा - कृता - अनुष्ठिता तदुपकारिणी मण्डनादिका क्रिया येन स कृतक्रिय इत्येवम्भूतो न भूयात्, न स्त्रीणां वैयावृत्त्यं कुर्यात्, काययोगनिरोध इति भावः, तथा तथैताः शुभानुष्ठानपरिपन्थिनीर्न वाङ्मात्रेणाप्यालपेदिति वाग्योगनिरोधः, तथा - आत्मन्यधि अध्यात्मं-मनस्तेन संवृत्तोऽध्यात्मसंवृत्तः - स्त्रीभोगादत्तमनाः सूत्रार्थीपयुक्तनिरुद्धमनोयोगः, एवम्भूतश्च ५ ॥ २१९ ॥
| किमपरं कुर्यादित्याह -- परिः समन्तात् वर्जयेत् परिहरेत् 'सदा' सर्वकालं 'पाप' किल्विषं तदुपादानं वा कर्म्म, उपसं
Etication matinal
For Parts Only
~442 ~#
लोक० ५ उद्देशका४