________________
आगम
(०१)
प्रत
सूत्रांक
[१५७]
दीप
अनुक्रम [१७० ]
श्रीआचा
राङ्गवृत्तिः (शी० )
॥ २१६ ॥
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [४], मूलं [१५७],निर्युक्ति: [२४९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
मदुपदेशवर्त्तिनो मा भवतु, आगमानुसारितया सदा गच्छान्तर्वतीं भवेत्यर्थः । सुधर्मस्वाम्याह- 'एतत् पूर्वोकं तत् 'कुशलस्य' श्रीवर्द्धमानस्वामिनो 'दर्शनम्' अभिप्रायों यथाऽव्यक्तस्यैकचरस्य दोषाः सततमाचार्यसमीपवर्त्तिनश्च गुणा * इति । आचार्यसमीपवर्त्तिना च किं विधेयमित्याह तस्य- आचार्यस्य दृष्टिस्तद्दृष्टिस्तया सततं वर्त्तितव्यं हेयोपादेयार्थेषु, यदिवा तस्मिन् संयमे दृष्टिस्तदृष्टिः, स एव वाऽऽगमो दृष्टिस्तदृष्टिस्तया सर्वकार्येषु व्यवहर्त्तव्यम्, तथा-तेनोक्ता सर्व| सङ्गेभ्यो विरतिर्मुक्तिस्तया सदा यतितव्यम्, तथा पुरस्करणं पुरस्कारः- सर्वकार्येष्वग्रतः स्थापनं, तस्य - आचार्यस्य पुर|स्कारस्तत्पुरस्कारस्तस्मिन् तद्विषये यतितव्यम्, तथा तस्य संज्ञा तत्संज्ञा- तज्ज्ञानं तद्वांस्तत्संज्ञी सर्वकार्येषु स्यात्, न स्वमतिविरचनया कार्य विदध्यात्, तथा तस्य-गुरोर्निवेशनं स्थानं यस्यासौ तन्निवेशनः सदागुरुकुलवासी स्यादिति भावः । तत्र गुरुकुले निवसन् किम्भूतः स्यादित्याह यतमानो-यतनया विहरणशीलो विहारी स्यात्, यतमानः प्राण्युपमर्दनमकुर्वन् प्रत्युपेक्षणादिकाः क्रियाः कुर्यादिति किं च-चित्तम्- आचार्याभिप्रायस्तेन निपतितुं क्रियायां प्रवर्त्तितुं | शीलमस्येति चित्तनिपाती सदा स्यादिति, तथा गुरोः कचिङ्गतस्य पन्थानं नियतुं प्रलोकितुं शीलमस्येति पधनिर्यायी उपलक्षणं चैतत् तेन सुषुप्सोः संस्तारकमलोकी बुभुक्षोराहारान्वेषीत्यादिना गुरोराराधकः सदा स्यात् किं चपरि:- समन्तात् गुरोरवग्रहात् पुरतः पृष्ठतो वाऽवस्थानात्सदा कार्यमृते बाह्यः स्याद्, एतस्माच्च सूत्रात्रयः ईर्योद्देशका निर्गता इति । किं च कचित्कार्यादौ गुर्वादिना प्रेषितः सन् दृष्ट्वा प्राणिनो युगमात्रदृष्टिस्तदुपधातं परिहरन् गच्छेत् । किं चसे अभिक्कममाणे पडिक्कममाणे संकुचमाणे पसारेमाणे विणिवट्टमाणे संपलिज्जमाणे,
Jan Estication Intimanal
For Pantry Use Only
~436 ~#
लोक० ५
उद्देशकः४
॥ २१६ ॥