________________
आगम
(०१)
प्रत
सूत्रांक
[१५५]
दीप
अनुक्रम [१६८ ]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [३], मूलं [१९५५], निर्युक्ति: [ २४९ ] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०१], अंग सूत्र- [ ०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
हन्तरे मुणी, तिण्णे मुत्ते विरए वियाहिए तिबेमि ( सू० १५५ ) | लोकसारे तृती - योद्देशकः ॥ ५-३ ॥
वसु-द्रव्यं, स चात्र संयमस्तद्विद्यते यस्य स निवृत्तारम्भो मुनिर्वसुमान् सर्व सम्यगन्वागतं प्रज्ञानं पदार्थाविर्भावकं यस्यात्मनस्तेनात्मना सर्वसमन्वागतप्रज्ञानरूपापन्नेन यदकर्त्तव्यं पापकर्म्म तन्नो कदाचिदप्यन्वेपति, उपलब्ध परमार्थरूपेणात्मना न सावद्यानुष्ठानविधायी स्यादिति भावार्थः । यदेव सम्यक् प्रज्ञानं तदेव पापकर्मवर्जनं यदेव च पापकर्मवर्जनं तदेव च सम्यक् प्रज्ञानमित्येतद्गतप्रत्यागतसूत्रेणैव दर्शयितुमाह-सम्यगिति - सम्यग्ज्ञानं सम्यक्त्वं वा तत्सहचरितं, अनयोः सहभावादेकग्रहणे द्वितीयग्रहणं न्याय्यं यदिदं सम्यग्ज्ञानं सम्यक्त्वं वेत्येतत्पश्यत तन्मुनेर्भावो मौनं संयमानु ठानमित्येतत्पश्यत यच्च मौनमित्येतत् पश्यत तत्सम्यग्ज्ञानं नैश्चयिकसम्यक्त्वं वा पश्यत, ज्ञानस्य विरतिफलत्वात् सम्यकृत्वस्य चाभिव्यक्तिकारणत्वात् सम्यक्त्वज्ञान चरणानामेकताऽध्यवसेयेति भावार्थ: । एतच्च न येन केनचिच्छक्यमनुष्ठातुमित्याह- नैतत्सम्यक्त्वादित्रयं सम्यगनुष्ठातुं शक्यं, कैः १ – 'शिथिलैः' अल्पपरिणामतया मन्दवीर्यैः संयमतपसोर्धृतिदृढिमरहितैरिति किं च- आत्रैः पुत्रकलत्राद्यनुषङ्गजनितस्नेहादाद्रक्रियमाणैरेतत्पूर्वोक्तम शक्यमिति सम्बन्धः, किं च-गुणाः शब्दादयस्तेष्वास्वादो येषां ते गुणास्वादास्तैरिति, किं च वक्रः समाचारो येषां ते तथा तैः, मायाविभिरित्यर्थः तथा-विषयकपायादिप्रमादैः प्रमत्तैरिति किं च-अगारं गृहं तद् आद्यक्षरलोपाद्द्वारमित्युक्तं तदगारमा
Jan Estication Intemational
For Pantry O
~429 ~#