________________
आगम (०१)
प्रत
सूत्रांक
[१५४]
दीप
अनुक्रम [१६७ ]
श्रीआचाराङ्गवृत्तिः (शी०)
॥ २११ ॥
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [३], मूलं [१५४], निर्युक्ति: [२४९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
वा - " जुद्धारियं च दुल्लहं” तत्रानार्थं सङ्ग्रामयुद्धं परीषहादिरिपुयुद्धं त्वार्य तद् दुर्लभमेव तेन युद्ध्यस्व, ततो भवतोऽशेषकर्मक्षयलक्षणो मोक्षोऽचिरादेव भावीति भावार्थः । तच्च भावयुद्धार्ह शरीरं लब्ध्वा कश्चित्तेनैव भवेनाशेषकर्मक्षयं विधत्ते, मरुदेवीस्वामिनीव, कश्चित् सप्तभिरष्टभिर्वा भवैर्भरतवत् कश्चिदपाई पुद्गलपरावर्त्तेन, अपरो न सेत्स्यत्येव, किमित्येवं यत आह-यथा येन प्रकारेण 'अत्र' अस्मिन् संसारे 'कुशलैः' तीर्थकृद्भिः 'परिज्ञाविवेकः' परिज्ञानविशिष्टता, कस्यचित् कोऽप्यध्यवसायः संसारवैचित्र्यहेतुः 'भाषितः प्रज्ञापितः, स च मतिमता तथैवाभ्युपगन्तव्य इति । तदेव परिज्ञाननानात्वं दर्शयन्नाह - लब्ध्वाऽपि दुर्लभं मनुजत्वं प्राप्य च मोक्षैकगमनहेतुं धर्म्म पुनरपि कम्मोदयात्तस्मात् च्युतो 'बालः' अज्ञः 'गर्भादिषु रज्यते' गर्भ आदिर्येषां कुमारयौवनावस्थाविशेषाणां ते गर्भादयः तेष्वेव गामुपयाति यथैभिः सार्द्ध मम वियोगो मा भूत् इत्यध्यवसायी भवति, यदिवा धर्म्मायुतस्तत्करोति येन गर्भादिषु यातनास्थानेषु सङ्गमुपयाति, 'रिजइति वा क्वचित्पाठः, रयते गच्छतीत्यर्थः । स्यात्-कोक्तमिदं १ यत् प्रागू व्यावर्णितमित्याह - 'अस्मि न्नि'ति आर्हते प्रवचने 'एतत् पूर्वोक्तं प्रकर्षेणोच्यते प्रोच्यते । एतच्च वक्ष्यमाणमत्रैवोच्यते इति दर्शयन्नाह - 'रुपे' चक्षुरिन्द्रियविषयेऽभ्युपपन्नो, वाशब्दादन्यत्र वा स्पर्शरसादौ 'क्षणे' प्रवर्त्तते, 'क्षणु हिंसायां' क्षणनं क्षणो-हिंसा तस्यां प्रवर्त्तते, वाशब्दादन्यत्र चानृतस्तेयादाबिति रूपप्रधानत्वाद्विषयाणां रूपित्याच्च रूपोपादानं, आस्रवद्वाराणां च हिंसाप्रधानत्वात्तदादित्वाच्च तदुपादानमिति । बालो रूपादिविषयनिमित्तं धर्माच्युतः सन् गर्भादिषु रज्यते, अत्रार्हते मार्गे इदमुच्यते यस्तु पुनर्गर्भादिगमनहेतुं ज्ञात्वा विषयसङ्गं धम्मदच्युतो हिंसाद्याश्रवद्वारेभ्यो निवर्त्तते स किंभूतः
Jan Estication Intemational
For Pantry O
~426 ~#
लोक० ५ उद्देशकः
॥ २११ ॥