________________
आगम (०१)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[3]
सू. ४
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [३], निर्युक्ति: [६३] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
मकरणे लोके स्वल्पो दोषो, लोकोत्तरेऽपि आकुट्टिकानाभोगसहसाकारादिषु क्षुल्लकभिक्षुस्थविरोपाध्यायसूरीणां यथाक्र| ममुत्तरोत्तरं प्रायश्चित्तमित्येवमन्येष्वपि विकल्पेष्वायोज्यम् ॥ तथा वैनयिकानां द्वात्रिंशद्भेदाः, ते चानेन विधिना | भावनीयाः सुरनृपयतिज्ञातिस्थविराधममातृपितृष्वष्टसु मनोवाक्कायप्रदान चतुर्विधविनयकरणात्, तद्यथा देवानां विनयं करोति मनसा वाचा कायेन तथा देशकालोपपन्नेन दानेनेत्येवमादि । एते च विनयादेव स्वर्गापवर्गमार्गमभ्युपयन्ति, नीचैर्वृत्त्यनुत्सेकलक्षणो विनयः सर्वत्र चैवंविधेन विनयेन देवादिषूपतिष्ठमानः स्वर्गापवर्गभाग् भवति, उक्तं च - "विर्णया णाणं णाणाओ दंसणं दंसणाहि चरणं च । चरणाहिंतो मोक्खो मोक्खे सोक्खं अणावाहं ॥ १ ॥” अत्र च क्रियावादिनामस्तित्वे सत्यपि केषाञ्चित्सर्वगतो नित्योऽनित्यः कर्त्ताऽकर्त्ता मूर्त्तोऽमूर्त्तः श्यामाकतण्डुलमात्रोऽङ्गुष्ठप|र्वमात्रो दीपशिखोपमो हृदयाधिष्ठान इत्यादिकः, अस्ति चौपपातिकश्च, अक्रियावादिनां त्वात्मैव न विद्यते, कुतः पुनरौपपातिकत्वम् ?, अज्ञानिकास्तु नात्मानं प्रति विप्रतिपद्यन्ते, किन्तु तज्ज्ञानमकिञ्चित्करमेषामिति, वैनयिकानामपि नात्माsस्तित्वे विप्रतिपत्तिः, किन्त्वन्यन्मोक्षसाधनं विनयादृते न सम्भवतीति प्रतिपन्नाः । तत्रानेन सामान्यात्मास्तित्वप्रतिपादनेनाक्रियावादिनो निरस्ता द्रष्टव्याः, आत्मास्तित्वानभ्युपगमे च - " शास्ता शास्त्रं शिष्यः प्रयोजनं वचनहेतुदृष्टान्ताः । सन्ति न शून्यं ब्रुवतस्तदभावाच्चाप्रमाणं स्यात् ॥ १ ॥ प्रतिषेद्धप्रतिषेधौ स्तश्चेच्छ्रन्यं कथं भवेत्सर्वम् ? । तदभावेन तु सिद्धा अप्रतिषिद्धा जगत्यर्थाः ॥ २ ॥” एवं शेषाणामप्यत्रैव यथासम्भव निराकरणमुत्प्रेक्ष्यमिति ॥ ३ ॥ गतमानुषङ्गिके, १ विनयात् ज्ञानं ज्ञानानं दर्शनात् (ज्ञानदर्शनाभ्यां चरणं च चरणात (ज्ञानदर्शनचारित्रेभ्यः) मोक्षो मोझे सोयमनाबाधम् ॥ १ ॥
Jan Estication Intematonal
For Pantry at Use Only
आत्मा विषयक अज्ञानतायाः निरूपणं, क्रियावादि आदि विविध वादिनायाः मते आत्म स्वरूपं
~41~#