________________
आगम
(०१)
प्रत
सूत्रांक
[१२५]
दीप
अनुक्रम [१३८ ]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१२५...],निर्युक्तिः [२१९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा
राङ्गवृत्तिः
(शी०)
॥ १७६ ॥
चारित्रमप्युपशमश्रेण्यामौपशमिकं १ कपायक्षयोपशमात् क्षायोपशमिकं चारित्रं २ चारित्रमोहनीयक्षयात्क्षायिकं १, ज्ञाने तु भावसम्यग् द्विधा ज्ञातव्यं तद्यथा- क्षायोपशमिकं क्षायिकं च तत्र चतुर्विधज्ञानावरणीय क्षयोपशमात् मत्यादि चतुविषं क्षायोपशमिकं ज्ञानं, समस्तक्षयात्क्षायिकं केवलज्ञानमिति । तदेवं त्रिविधेऽपि भावसम्यक्त्वे दर्शिते सति परखो४ दयति-यद्येवं त्रयाणामपि सम्यग्वादसम्भवे कथं दर्शनस्यैव सम्यक्त्ववादी रूढो यदिहाध्ययने व्यावर्ण्यते, उच्यते, तद्भावभावित्वादित्तरयोः, तथाहि मिथ्यादृष्टेस्ते न स्तः, अत्र च सम्यक्त्वप्राधान्यख्यापनाय अन्धेतरराजकुमारद्वयेन वालाङ्गनाद्यवबोधार्थ दृष्टान्तमाचक्षते - तद्यथा-उदयसेनराज्ञो वीरसेनसूरसेन कुमारद्वयं तत्र वीरसेनोऽन्धः, स च त| व्यायोग्या गान्धर्वादिकाः कला ग्राहितः, इतरस्त्वभ्यस्तधनुर्वेदो लोकश्लाध्यां पदवीमगमत् एतच्च समाकर्ण्य वीरसेनेनापि राजा विज्ञप्तो यथाऽहमपि धनुर्वेदाभ्यासं विदधे, राज्ञाऽपि तदाग्रहमवगम्यानुज्ञातः, ततोऽसौ सम्यगुपाध्यायोपदेशात् प्रज्ञातिशयादभ्यासविशेषाञ्च शब्दवेधी सञ्जज्ञे, तेन चारूढयौवनेन स्वभ्यस्तधनुर्वेदविज्ञान क्रियेणागणितचक्षुदर्शनसदसद्भावेन शब्दवेधित्वावष्टम्भात्परबलोपस्थाने सति राजा युद्धायादेशं याचितः तेनापि याच्यमानेन वितेरे, वीरसेनेन च शब्दानुवेधितया परानीके जजृम्भे, परैश्चावगतकुमारान्धभावैर्मूकतामा लम्ब्यासी जग्रहे, सूरसेनेन च विदितवृतान्तेन राजानमापृच्छ्य निर्शितंशरशतजालावष्टब्धपरानीकेन मोचितः । तदेवमभ्यस्तविज्ञान क्रियोऽपि चक्षुविकलत्वान्नालमभिप्रेतकार्यसिद्धये इति । एतदेव नियुक्तिकारो गाथयोपसंहर्तुमाह
कुणमाणोऽवि य किरियं परिचयंतोवि सयणधण भोए। दितोऽवि दुहस्स उरं न जिगह अंधो पराणीयं ॥ २२० ॥
Etication matinal
For Pantry at Use Only
~356 ~#
सम्य० ४
उद्देशकः१
॥ १७६ ॥