________________
आगम (०१)
प्रत
सूत्रांक
[१११]
दीप
अनुक्रम [११९]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [२], मूलं [१११],निर्युक्तिः [२१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा- वर्णादिचतुष्कं १३ आनुपूर्वी १४ अगुरुलघु १५ पघातं १६ पराघातं १७ उच्छ्रासं १८ प्रशस्तविहायोगतिः १९ सं २० राङ्गवृत्तिः ६ बादरं २१ पर्याप्तकं २२ प्रत्येकं २३ स्थिरं २४ शुभं २५ सुभगं २६ सुस्वरं २७ आदेयं २८ यशः कीर्त्ति २९ निर्माण(शी०) ३० मिति च वनत एकं बन्धस्थानं ६, एषैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् ७, एतेषां च बन्धस्थानानामेकेन्द्रियद्वीन्द्रियत्रीन्द्रियनरकगत्यादिभेदेन बहुविधता कर्म्मग्रन्थादवसेया, अपूर्वकरणादिगुणस्थानकत्रये देवगतिप्रायोग्यबन्धोपरमाद्यशः कीर्त्तिमेव वनतः एकविधं बन्धस्थानमिति ८, तत ऊर्द्ध नाम्नो बन्धाभाव इति । गोत्रस्य सामा* न्येनैकं बन्धस्थानं उच्चनीचयोरन्यतरत्, यौगपद्येनोभयोर्बन्धाभावो विरोधादिति । तदेवं बन्धद्वारेण लेशतो बहुत्वमावेदितं कर्मणां तच्च बहु कर्म्म प्रकृतं वद्धं प्रकटं वा, तत्कार्यप्रदर्शनात् खलुशब्दो वाक्यालङ्कारेऽवधारणे वा, बहेव तत्कर्म्म । यदि नामैवं ततस्तदपनयनार्थे किं कर्त्तव्यमित्याह
॥ १६२ ॥
सचंमि धि कुव्वा, एत्थोवरए मेहावी सव्वं पावं कम्मं जोसइ ( सू० ११२ )
सद्भ्यो हितः सत्यः- संयमस्तत्र धृतिं कुरुध्वं, सत्यो वा मौनीन्द्रागमो यथावस्थित वस्तुस्वरूपाविर्भावनात्, तत्र भगवदाज्ञायां धृतिं कुमार्गपरित्यागेन कुरुध्वमिति, किं च - 'एत्थोवरए' इत्यादि, 'अत्र' अस्मिन् संयमे भगवद्वचसि वा उपसामीप्येन रतो-व्यवस्थितो 'मेधावी' तत्त्वदर्शी 'सर्वम्' अशेषं 'पाप' कर्म संसारार्णवपरिभ्रमणहेतुं झोषयति-शोषयति क्षयं नयतीतियावत् । उक्तोऽप्रमादः, तत्प्रत्यनीकस्तु प्रमादः तेन च कषायादिप्रमादेन प्रमत्तः किंगुणो भवतीत्याह
Etication matinal
For Pantry Use Onl
~328~#
शीतो० ३
उद्देशकः २
॥ १६२ ॥