________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [3], उद्देशक [२], मूलं [११०...], नियुक्ति : [२१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[०१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
||१||
दीप अनुक्रम [११५]]
जाति:-प्रसूतिः बालकुमारयौवनवृद्धावस्थावसाना वृद्धिः 'इह' मनुष्यलोके संसारे या अवैव काउक्षेपमन्तरेण, जातिं च वृद्धिं च पश्य' अवलोकय, इदमुक्तं भवति-जायमानस्य यदुःखं वृद्धावस्थायां च यच्छारीरमानसमुत्पद्यते तद्विवेकचक्षुषा पश्य, उक्तं च-"जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरइ जाइमप्पणो ॥ १॥ विरसरसियं रसंतो तो सो जोणीमुहाउ निष्फिडइ । माऊए अप्पणोऽविअ वेअणमउलं जणेमाणो ॥२॥" तथा—'हीणभिष्णसरो दीणो, विषरीगो विचित्तओ । दुबलो दुक्खिो वसइ, संपत्तो चरिमं दस ॥ ३ ॥ इत्यादि, अथवा आर्य इत्यामन्त्रणं भगवान् गौतममामन्त्रयति, इह आर्य ! जातिं वृद्धिं च तत्कारणं कर्म कार्यं च दुःखं पश्य, दृष्ट्वाऽवयुद्धपस्व, यथा च जात्यादिकं न स्यात् तथा विधत्स्व । किं चापरं-'भूएहि मित्यादि, भूतानि-चतुर्दशभूतग्रामास्तैः सममात्मनः सात-मुखं 'प्रत्युपेक्ष्य' पर्यालोच्य जानीहि, तथाहि-यथा त्वं सुखप्रिय एवमन्येऽपीति, यथा च त्वं दुःखद्विडेवमन्येऽपि जन्तवः, एवं मत्वाऽन्येपामसातोसादनं न विदध्याः, एवं च जन्मादिदुःखं न प्राप्स्यसीति, उक्तं च "यथेष्टविषयाः सातमनिष्टा इतरत्तव । अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने ॥ १ ॥" ययेवं ततः किमित्याह-'तम्हा' इत्यादि, 'तस्माद्' जातिवृद्धिसुखदुःखदर्शनादतीय विद्या-तश्वपरिच्छेत्री यस्यासावतिविद्यः स
आयमानमा यदु मिगमागमा जन्तोः । न हुसेन चतो ग सरति जातिमात्मनः ॥1॥निरसरचितं रसन्, ततः बोनिमुखा, निरारति । मातुरात्मनोऽपि च वेदनामतुल जनयन् ॥१॥ हीनभिनखरो दीनो विपरीतो विचित्तकः । दुबलो दुःखितो पसति संत्राप्तः परमा दशाम ॥३॥
~ 321~#