________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [9], मूलं [९२], नियुक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[९२]
वितेऽपि न प्रमादवता भाव्यमिति, आह च-'जीवियं' इत्यादि, जीवितम्-आयुष्कं तत् क्षीणं सत् 'दुष्प्रतिबृंहणीय' दुरभावार्थे, नैव वृद्धि नीयते इतियावत् , अथवा जीवित-संयमजीवितं तदुष्पतिव्रहणीयं, कामानुषक्तजनान्तर्वतिना दुःखेन वृद्धि नीयते, दुःखेन निष्प्रत्यूहः संयमः प्रतिपाल्यते इति, उक्तं च-"आगासे गंगसोउन्ध, पडिसोउच दुत्तरो। बाहाहिं चेव गंभीरो, तरिअब्बो महोअही ॥१॥ वालुगाकवलो चेव, निरासाए हु संजमो । जवा लोहमया चेव, चावे| यच्चा सुदुकरं ॥२॥" इत्यादि, येन चाभिप्रायेण कामा दुरतिक्रमा इति प्रागभ्यधायि तमभिप्रायमाविष्कुर्वनाह
कामकामी' इत्यादि, कामान् कामयितुम्-अभिलषितुं शीलमस्येति कामकामी 'खलु' वाक्यालङ्कारे 'अयम्' इत्यध्यक्ष 'पुरुषः' जन्तुः । यस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान् शारीरमानसान् दुःखविशेषाननुभवतीति दर्शयति-से सोयईत्यादि, 'स' इति कामकामी ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे च स्मृत्यनुषङ्गः शोकस्तमनुभवति अथवा शोचत इति काममहाज्वरगृहीतः सन् प्रलपतीति, उक्त च-गते प्रेमावन्धे प्रणयवहुमाने च गलिते, निवृत्ते सद्भावे जन इव जने गच्छति पुरः। तमुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि! गतांस्तांश्च दिवसान्, न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥१॥" इत्यादि शोचते, तथा 'जूरइ'त्ति हृदयेन खिद्यते, तद्यथा-"प्रथमतरमधेदं चिन्तनीयं तवासीद्बहुजनदयितेन प्रेम कृत्वा जनेन । हतहृदय ! निराश! क्लीव! संतप्यसे किं?, न हि जडगततोये सेतुबन्धाः क्रियन्ते ॥१॥"
आकाशे गङ्गाश्रोत इव, प्रतिश्रोत इव दुल्तरः । बाहुभ्यामेव गम्भीरतरीतव्यो महोदधिः ॥1॥ बालकाकवल इच, निराखाद एव संयमः । यथा लोहमया एव, चयितव्याः सुदुष्करम् ॥ २॥
अनुक्रम [९४]
ACCORRECRUSTAN
www.jansatnam.org
~275~#