________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६३], नियुक्ति: [१८६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[६३]]
जघन्यतस्त्वनालासख्येयभागविषयत्वं सर्वेषाम्, अत्र च 'सोयपरिण्णाणेहिं परिहायमाणेही त्यादि य उत्पत्ति प्रति व्यत्ययेनेन्द्रियाणामुपन्यासः स एवमर्थ द्रष्टव्यः-इह संज्ञिनः पश्चेन्द्रियस्य उपदेशदानेनाधिकृतत्वादुपदेशश्च श्रोत्रेन्द्रियविषय इतिकृत्वा तत्पर्याप्तौ च सर्वेन्द्रियपर्याप्तिः सूचिता भवति । श्रोत्रादिविज्ञानानि च षयोऽतिक्रमे परिहीयन्ते, तदेवाह–'अभिकत'मित्यादि, अथवा श्रोत्रादिविज्ञानरपचितैः करणभूतैः सद्भिः 'अभिकतं च खलु वयं स पेहाए' तत्र प्राणिनां कालकृता शरीरावस्था यौवनादिर्वयः तज्जरामभि-मृत्यु वा क्रान्तमभिकान्तम्, इह हि चत्वारि वयांसि-कुमारयौवनमध्यमवृद्धत्वानि, उक्तं च-"प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे कि करिष्यति ? ॥१॥" तत्राद्यवयोद्वयातिक्रमे जराभिमुखमभिक्रान्तं वयो भवति, अन्यथा वा त्रीणि वयांसि-कौमारयौवनस्थविरत्वभेदाद्, उक्तं च "पिता रक्षति कौमारे, भर्ती रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न खी स्वातन्त्र्यम-12 हति ॥१॥" अन्यथा वा त्रीणि वयांसि, बालमध्यवृद्धत्वभेदात्, उक्तं च-आषोडशाद्भवेद्वालो, यावत्क्षीरानवर्तकः । मध्यमः सप्ततिं यावत्परतो वृद्ध उच्यते ॥ १॥" एतेषु वयस्सु सर्वेष्वपि योपचयवत्यवस्था तामतिकान्तोऽतिकान्तवया इत्युच्यते, चः समुच्चये, न केवलं श्रोत्रचक्षुर्माणरसनस्पर्शनविज्ञानैर्व्यस्तसमस्तैर्देशतः सर्वतो वा परिहीयमाणैर्वा मौढ्य-| मापद्यते, वयश्चातिक्रान्तं 'प्रेक्ष्य' पर्यालोच्य 'स' इति प्राणी खलुरिति विशेषणे विशेषेण-अत्यर्थं मौढ्यमापद्यत इति, आह च-ततो से' इत्यादि, 'तत' इति तस्मादिन्द्रियविज्ञानापचयाद्वयोऽतिक्रमणाद्वा स इति प्राणी 'एकदेति वृद्धाव
१ चक्षुषः संख्येयभागे यद्यपि तथापि सर्वेषां विषयस्य सामान्येन विवक्षनादित्यनुतं.
अनुक्रम [६४]
~213~#