________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६३], नियुक्ति: [१८६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
KARSA
प्रत
सूत्राक
[६३]]
सात्सर्गानन्दसङ्कल्पव्यापाराणि, ततश्चैतेपामारमोपकारकत्वेन करणत्वं, करणत्वादिन्द्रियत्वमिति, एवं चैकादशेन्द्रियसद्भावे
सति पञ्चानामेवोपादानं किमर्थमिति, आहाचार्यों-नैष दोषः, इह ह्यात्मनो विज्ञानोत्पत्ती यत् प्रकृष्टमुपकारकं तदेव | करणत्वादिन्द्रियम् , एतानि तु वाक्पाण्यादीनि नैवात्मनोऽनन्यसाधारणतया करणत्वेन व्याप्रियन्ते, अथ यां काञ्चन | क्रियामुपादाय करणत्वमुच्यते एवं तर्हि भूदरादेरप्युत्क्षेपादिसम्भवात्करणत्वं स्यात् , किं च-इन्द्रियाणां स्वविषये निय-| तत्वात् नान्येन्द्रियकार्यमन्यदिन्द्रियं कर्तुमलं, तथाहि-चक्षुरेव रूपावलोकनायालं न तदभावे श्रोत्रादीनि, यस्तु रसा-| युपलम्भे शीतस्पर्शादेरप्युपलम्भः स सर्वव्यापित्वात् स्पर्शनेन्द्रियस्येत्यनाशङ्कनीयम् , इह तु पुनः पाणिच्छेदेऽपि तत्कायस्यादानलक्षणस्य दशनादिनाऽपि निर्वर्त्यमानत्वाद्यत्किञ्चिदेतत्, मनसस्तु सर्वेन्द्रियोपकारकत्वादन्तःकरणत्वमिष्यत एव, तस्य च बाह्येन्द्रियविज्ञानोपघातेनैव गतार्थत्वान्न पृथगुपादानमिति, प्रत्येकोपादानं च क्रमोत्पत्तिविज्ञानोपलक्ष-12 णार्थ, तथाहि-येनैवेन्द्रियेण सह मनः संयुज्यते तदेवात्मीयविषयगुणग्रहणाय प्रवर्तते नेतरदिति, ननु च दीर्घशष्कुलीभक्षणादौ पञ्चानामपि विज्ञानानां योगपद्येनोपलब्धिरनुभूयते, नैतदस्ति, केवलिनोऽपि द्वावुपयोगौ न स्तः, आस्तां | तावदारातीयभागदर्शिनः पञ्चोपयोगा इति, एतच्चान्यत्र न्यक्षेण प्रतिपादितमिति नेह प्रतायते, यस्तु योगपधेनानुभवा-1 भासः स द्राग्वृत्तित्वान्मनसो भवतीति, उक्तं च-"आत्मा सहेति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम | एष शीघ्रः । योगोऽयमेव मनसः किमगम्यमस्ति ?, यस्मिन्मनो ब्रजति तत्र गतोऽयमात्मा ॥१॥" । इह चायमात्मेन्द्रि
१खपक्षे भावमनो व्याप्रियते इत्यर्थः.
अनुक्रम [६४]
~211~#