________________
आगम
(०१)
प्रत
सूत्रांक
[६२]
दीप
अनुक्रम [ ६३ ]
-36564544
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [१], मूलं [६२], निर्युक्ति: [१८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
अहो य राओ य परितप्यमाणे कालाकालसमुट्ठाई संजोगट्टी अट्ठालोभी आलूंचे सहसाकारे विणिविचित्ते, एत्थ सत्थे पुणो पुणो, अप्पं च खलु आउयं इहमेगेसिं माण वाणं तंजहा ॥ ६२ ॥
अस्य चानन्तरपरम्परादिसूत्रैः सम्बन्धो वाच्यः, तत्रानन्तरसूत्र सम्बन्धः --' से हु मुणी परिण्णायकम्मे'ति, स मुनिः परिज्ञातकर्मा भवति यस्यैतद्गुणमूलादिकमधिगतं भवति, परम्परसूत्रसम्बन्धस्तु 'से जं पुण जाणिज्जा सहसंमुइयाए | परवागरणेणं अण्णेसिं वा सोच्चा' स्वसम्मत्या परव्याकरणेन तीर्थकरोपदेशादन्येभ्यो वाऽऽचार्यादिभ्यः श्रुत्वा जानीयात् परिच्छिन्द्यात् किं तदित्युच्यते- 'जे गुणे से मूलहाणे', आदिसूत्रसम्बन्धस्तु 'सुयं मे आउसंतेगं भगवया एवमक्खायें' किं तत् श्रुतं भवता यद्भगवता आयुष्मताऽऽख्यातमिति, उच्यते, 'जे गुणे से मूलद्वाणे,' 'य' इति सर्वनाम प्रथमान्तं मागधदेशीवचनत्वादेकारान्तं सामान्योद्देशार्थाभिधायीति, गुण्यते- भिद्यते विशेष्यतेऽनेन द्रव्यमिति गुणः, स चेह शब्दरूपरसगन्धस्पर्शादिकः, 'स' इति सर्वनाम प्रथमान्तमुद्दिष्टनिर्देशार्थाभिधायीति, 'मूल' मिति निमित्तं कारणं प्रत्यय इति पर्यायाः, तिष्ठन्त्यस्मिन्निति स्थानं, मूलस्य स्थानं मूलस्थानं, 'व्यवच्छेदफलत्वाद् वाक्याना' मिति न्यायात् य एव शब्दादिकः कामगुणः स एव संसारस्य-नारकतिर्यग्नरामरसंसृतिलक्षणस्य यन्मूलं कारणं कषायास्तेषां स्थानम्आश्रयो वर्त्तते यस्मान्मनोज्ञेतर शब्दाद्युपलब्धौ कषायोदयः, ततोऽपि संसार इति, अथवा मूलमिति कारणं, तच्चा
Jan Estication Inmatnl
For Pantry O
~ 201~#