________________
आगम
(०१)
प्रत
सूत्रांक
[६१]
अनुक्रम [६२]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], निर्युक्तिः [१८३] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
स्रस्य द्वौ सप्तभागौ पस्योपमा सङ्ख्येयभागन्यूनाबन्तर्मुहूर्त्तमबाधा, आहारकतदङ्गोपाङ्गतीर्थकर नाम्नां सागरोपमकोटीको टिभिज्ञान्तर्मुहूर्तमबाधा, ननु चोत्कृष्टोऽप्येतावन्मात्र एवाभिहितस्ततः कोऽनयोर्भेद इति ?, उच्यते, उत्कृष्टात् सङ्ख्येयगुणहीनो जघन्य इति, यशः कीर्त्त्यच्चर्गोत्रयोरष्टमुहूर्त्ताभ्यन्तर्मुहूर्तमबाधा, देवनारकायुषेोर्दश वर्षसहस्राण्यन्तर्मुहूर्त्तमबाधा, तिर्यग्मनुजायुषोः क्षुल्लकभवोऽन्तर्मुहूर्त्तमवाधेति, बन्धनसङ्घातयोरीदारिकादिशरीर सहचरितत्वातगत एवोस्कृष्टजघन्यभेदोऽवगन्तव्य इति । उक्तः स्थितिबन्धः, अनुभावबन्धस्तूच्यते तत्र शुभाशुभानां कर्मप्रकृतीनां प्रयोगकर्मगोपात्तानां प्रकृतिस्थितिप्रदेशरूपाणां तीव्रमन्दानुभावतयाऽनुभवनमनुभावः, स चैकद्वित्रिचतुः स्थानभेदेनानुगन्तव्यः, तत्राशुभप्रकृतीनां कोशातकीर ससमक्कथ्यमानार्द्धत्रिभागपादावशेषतुल्यतया तीव्रानुभावोऽवगन्तव्यो मन्दानुभावस्तु जातिर सैक द्वित्रिचतुर्गुणोदकप्रक्षेपास्वादतुल्यतयेति, शुभानां तु क्षीरेक्षुरसदृष्टान्तः पूर्ववद्योजनीयः, अत्र च कोशातकी क्षुरसादावुदकविन्द्रादिप्रक्षेपात् व्यत्ययाद्वा भेदानामानन्त्यमवसेयमिति । अत्र चायूंषि भवविपाकीनि आनुपूर्व्यः क्षेत्रविपाकिन्यः शरीर संस्थानाङ्गोपाङ्ग सङ्घातसंहननवर्णगन्धरसस्पर्शा गुरुलघूपघातपराधातोद्योतातप निर्माणप्रत्येकसाधारणस्थिरास्थिरशुभाशुभरूपाः पुद्गलविपाकिन्यः, शेषास्तु ज्ञानावरणादिका जीवविपाकिन्य इत्युक्तोऽनुभाववन्धः । प्रदेशबन्धस्त्वेक विधादिबन्धकापेक्षया भवति, तत्र यदैकविधं बध्नाति तदा प्रयोगकर्मणैकसमयोपात्ताः पुद्गलाः सातावेदनीयभावेन विपरिणमन्ते, पधिबन्धकस्य स्वायुम्मोहनीयवज्र्जः षोढा, सप्तविधबन्धकस्य सप्तधा, अष्टविधबन्धकस्याष्टधेति, तत्राद्यसमयप्रयोगात्ताः पुद्गलाः समुदानेन द्वितीयादिसमयेष्वल्प बहुप्रदेश तयाऽनेन क्रमेण व्यवस्थापयति-तत्रा
Estication tumanl
For Pantry Use Only
~197 ~#