________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१७२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
SAGAR
[६१]]
एव कस्यचिदगुणत्वेन विपरिणमते, यथाऽऽर्जयोपेतस्यर्जुत्वाख्यो गुणो मायाविनः प्रत्यगुणो भवति, उक्तं च-"शाठयं हीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं, शूरे निपुणता ऋजौ विमतिता दैन्यं प्रियाभापिणि । तेजस्विन्यवलिप्तता! मुखरता वक्तर्यशक्तिः स्थिरे, तत्को नाम गुणो भवेत् स विदुषां यो दुर्जनै जितः ॥१॥" । अगुणगुणो नामागुण एव च कस्यचित् गुणत्वेन विपरिणमते, स च वनविषयो, यथा गौगलिरसञ्जातकिणस्कन्धो गोगणस्य मध्ये सुखेनैवास्ते, तथा च-"गुणानामेव दौर्जन्याहुरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः, सुखं जीवति गौर्गलिः ॥१॥"। भवगुणो नाम भवन्ति-उत्पद्यन्ते तेषु तेषु स्थानेष्विति नारकादिर्भवः, तत्र तस्य वा गुणो भवगुणः, स च जीवविषयः, तद्यथानारकास्तीव्रतरवेदनासहिष्णवस्तिलशश्छिन्नसन्धानिनोऽवधिमन्तश्च भवगुणादेव भवन्ति, तिर्यश्वश्च सदसद्विवेकविकला अपि सन्तो गगनगमनलब्धिमन्तो, गवादीनां च तृणादिकमप्यशनं शुभानुभावेनापद्यते, मनुजानां चाशेषकर्मक्षयो, देवानां च सर्वशुभानुभावो भवगुणादेवेति । शीलगुणो नाम परैराश्यमानोऽपि शीलगुणादेव न क्रोधवशो भवति, अथवा शब्दादिके शोभने अशोभने वा स्वभावादेव विदितवेद्यवन्माध्यस्थ्यमवलम्बते । भावगुणो नाम भावा:-औदयिकादयस्तेषां गुणो भावगुणः, स च जीवाजीवविषयः, तत्र जीवविषय औदयिकादिः पोढा, तत्रौदयिकः प्रशस्तोऽप्र
शस्तश्च, तीर्थकराहारकशरीरादिः प्रशस्तः, अप्रशस्तस्तु शब्दादिविषयोपभोगहास्यरत्यरतीत्यादिः, औपशमिक उपशमशेपाण्यन्तर्गतायुष्कक्षयानुत्तरविमानप्राप्तिलक्षणस्तथा सत्कर्मानुदयलक्षणश्चेति, क्षायिकभावगुणश्चतुर्दो, तद्यथा-क्षीणसप्त
उर्जवे प्र. २ दौरारम्यान प्र.
अनुक्रम [६२
wwwlandltimaryam
~177~#