SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [६१] दीप अनुक्रम [६२] “आचार” - अंगसूत्र -१ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [१], मूलं [६१...], निर्युक्ति: [१७१-R.] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र [०१], अंग सूत्र -[०१] “ आचार” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः नुबन्धिक्रोधाद्युपहतचेतस आत्मप्रदेशानामितश्चेतश्च प्रक्षेपः इत्येवं तीव्रतरवेदनोपहतस्यापि वेदनासमुद्घातः, मारणान्तिकसमुद्घातो हि मुमूर्षोरसुमत आदित्सितोत्पत्तिप्रदेशे आलोकान्तादात्मप्रदेशानां भूयो भूयः प्रक्षेपसंहाराविति, वैक्रि| यसमुद्घातो वैक्रियलब्धिमतो वैक्रियोत्पादनाय बहिरात्मप्रदेशप्रक्षेपः, तैजससमुद्घातस्तैजसशरीरनिमित्तं तेजोलेश्यालविधमतस्तेजोलेश्या प्रक्षेपावसरे इति, आहारकसमुद्घातश्चतुर्दशपूर्वविद आहारकलब्धिमतः कचित्सन्देहापगमनाय तीर्थङ्करान्तिकगमनार्थमाहार कशरीरं समुपादातुं बहिरात्मप्रदेशप्रक्षेपः, केवलिसमुद्घातं तु समस्तलोकव्यापितयाऽन्तनतान्यसमुद्धातं नियुक्तिकारः स्वत एवाचष्टे – 'पूरयति' व्याप्नोति हन्दीत्युपप्रदर्शने, किम् ? – 'लोकं' चतुर्द्दशरजवात्मकमाकाशखण्डं, कुतो ?, बहुप्रदेशगुणत्वात् तथाहि उत्पन्नदिव्यज्ञान आयुषोऽल्पत्वमवधार्य वेदनीयस्य च प्राचुर्य दण्डादिक्रमेण लोकप्रमाणत्वादात्मप्रदेशानां लोकमापूरयति, तदुक्तम्- "दंडे कवाडे मंथंतरे य'त्ति गाथार्थः ॥ गतो द्रव्यगुणः, क्षेत्रादिकमाह देवकुरु सुसमसुसमा सिद्धी निष्भय दुगादिया चैव । कल भोअणुज्जु बंके जीवमजीवे य भावंमि ॥ १७२ ॥ क्षेत्रगुणः देवकुर्वादिः कालगुणे सुषमसुषमादिः, फलगुणे सिद्धिः पर्यवगुणे निर्भजना, गणनागुणे द्विकादि, करणगुणे कलाकौशल्यम्, अभ्यासगुणे भोजनादि, गुणागुणे ऋजुता, अगुणगुणे वक्रता, भवगुणशीलगुणयोर्भावगुणार्थमुपात्तेन जीवग्रहणेन गतार्थत्वाद्नाथायां पृथगनुपादानं, भवगुणो जीवस्य नारकादिर्भवः, शीलगुणो जीवः क्षान्त्यायु १ दण्डः कपाटये मन्धा अन्तराणि च Jain Estucation Intimanal For Fanart Use Only मुद्रणदोषात् अत्र नियुक्ति-क्रम पुनः लिखितम्, तत् कारणत्वात् मया 'R' संज्ञा दत्वा निर्युक्तिः '१७० -R' निर्देशितः ~175 ~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy