SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [६१] दीप अनुक्रम [६२] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], निर्युक्तिः [१७१] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [०१], अंग सूत्र- [ ०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः नमः श्रीवर्द्धमानाय, वर्द्धमानाय पर्ययैः । उक्ताचारप्रपश्चाय, निष्प्रपञ्चाय तायिने ॥ १ ॥ शस्त्रपरिज्ञाविवरणमतिगहनमितीव किल वृतं पूज्यैः । श्रीगन्धहस्तिमित्रैर्विवृणोमि ततोऽहमवशिष्टम् ॥ २ ॥ उक्तं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः - इह हि मिथ्यात्वोपशमक्षय क्षयोपशमान्यतरावातसम्यग्दर्शनज्ञान कार्यस्यात्यन्तिकैकान्तानाबाधपरमानन्दस्वतत्त्वसुखानावरणज्ञानदर्शनलक्षणलक्षितमोक्षकारणस्याश्रवनिरोधनिर्जरारूपस्य मूढोत्तरगुणभेदभिन्नस्य चारित्रस्यापरा शेषश्तवृतिकल्पनिष्पादितनिष्प्रत्यूहसकलप्राणिगणसङ्घट्टनपरितापनापद्रावणनिवृत्तिरूपस्य संसिद्धये मरणाभावप्रसङ्गादभूतगुणात्मधर्मज्ञानोपलब्धेर्बार्हस्पत्यमतनिरासेन सामान्यतो जीवास्तित्वं प्रतिपाद्य विशेषतश्च बौद्धादिमतनिरासेनै केन्द्रियावनिवनानलपवनवनस्पतिभेदांश्च जीवान् प्रकटय्य यथाक्रमं | समानजातीयाश्मलताद्युद्धे ददर्शनादर्शोमांसाङ्कुरवत् अविकृतभूमिखननोपलब्धेर्म्मण्डूकवत् विशिष्टाहारोपचयापचयशरीराभिवृद्धिक्षयान्वयव्यतिरेकगतेरर्भ कशरीरवत् अपरप्रेरिताप्रतिहता नियततिरश्चीनगमनाङ्गवाश्वादिवत् सालककनूपुरालङ्कारकामिनीचरणताडन विकाराधिगतेः कामुकवदित्यादिभिः प्रयोगेः तथोच्चैः शिर उद्घाट्य सूक्ष्मवादरद्वित्रिचतुष्पञ्चेन्द्रियसंज्ञीतरपर्याप्त क अपर्याप्तकभेदांश्च प्रदर्श्य शस्त्रं च स्वकायपरकायभेदभिन्नं तद्वधे वन्धं विरतिं च प्रतिपाद्य पुनरपि तदेव चारित्रं यथा सम्पूर्णभावमनुभवति तथाऽनेनाध्ययनेनोपदिश्यते, तथाहि - अधिगतशस्त्रपरिज्ञा सूत्रार्थस्य तत्प्रतिपादितैकेन्द्रियपृथिवीकायादि श्रद्दधानस्य सम्यक् तद्रक्षापरिणामवतः सर्वोपाधिशुद्धस्य तद्योग्यतयाऽऽरोपितपञ्चमहाव्रतभारस्य साधोर्यथा रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तथाऽनेनाध्ययनेन प्रतिपाद्यते । Jain Estication Intl For Parts Only मुद्रणदोषात् अत्र नियुक्ति-क्रम पुनः लिखितम्, तत् कारणत्वात् मया 'R' संज्ञा दत्वा निर्युक्तिः १६३ - २' निर्देशित: द्वितीयं अध्ययनं "लोकविजय'' आरब्ध:, ~167~# www.andlibrary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy