________________
प्रमेयरत्नमाला मन्यद्वादलक्षणं पत्रलक्षणं वाऽन्यत्रोक्तमिह द्रष्टव्यं तथा चाह ॥ समर्थवचनं वाद इति । प्रसिद्धावयवं वाक्यं स्वेष्टस्यार्थस्य साधकम् । साधुगूढपदपायं पत्रमाहुरनाकुलम् ॥ १ ॥ इति ॥
परीक्षामुखमादर्श हेयोपादेयतत्त्वयोः।
संविदे मादृशो बालः परीक्षादक्षवद्व्यधाम् ॥१॥ व्यधामकृतवानस्मि । किमर्थं संविदे । कस्य मादृशः । अहं च कथंभूत इत्याह बालो मन्दमतिः अनौद्धत्यसूचकं वचनमेतत् । तत्त्वज्ञत्वञ्च प्रारब्धनिर्वहणादेवावसीयते ॥ किं तत् परीक्षामुखम् । तदेव निरूपयति
आदर्शमिति । कयोः हेयोपादेयतत्त्वयोः यथैवादर्श आत्मनोऽलङ्कारमण्डितस्य सौरूप्यं वैरूप्यं वा प्रतिबिम्बोपदर्शनद्वारेण सूचयति तथेदमपि हेयोपादेयतत्त्वं साधनदूषणोपदर्शनद्वारेण निश्चाययतीत्यादर्शत्वेन निरूप्यते क इव परीक्षादक्षवत् परीक्षादक्ष इव, यथा परीक्षादक्षः स्वपारब्धशास्त्र निरूढवाँस्तथाऽहमपीत्यर्थः ॥
अकलङ्कशशांकैर्यत्प्रकटीकृतमखिलमाननिभनिकरम् । तत्संक्षिप्तं सूरिभिरुरुमतिभिर्व्यक्तमेतेन ॥१॥
इति परीक्षामुखलघुवृत्तौ प्रमाणाद्याभाससमुद्देशः षष्ठः ॥ ६ ॥
श्रीमान् वैजेयनामाभूदग्रणीर्गुणशालिनाम् ।
बदरीपालवंशालिव्योमधुमणिरूजितः ॥ १ ॥ तदीयपत्नी भुवि विश्रुतासीनाणाम्बनाम्ना गुणशीलसीमा । यां रेवतीति प्रथिताम्बिकेति प्रभावतीति प्रवदन्ति सन्तः ॥ २ ॥ तस्यामभूद्विश्वजनीनवृत्तिर्दानाम्बुवाहो भुवि हीरपाख्यः । स्वगोत्रविस्तारनभोऽशुमाली सम्यक्त्वरत्नाभरणार्चिताङ्गः ॥३॥ तस्योपरोधवशतो विशदोरुकीर्तेर्माणिक्यनन्दिकृतशास्त्रमगाधबोधम् । स्पष्टीकृतं कतिपयैर्वचनरुदारैर्बालपबोधकरमेतदनन्तवीर्यैः ॥ ४ ॥
इति प्रमेयरत्नमालापरनामधेया परीक्षामुखनवृत्तिः समाप्ता ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org