________________
मेयरमाला
समवायेऽतिप्रसङ्ग इति ॥ ७२ ॥
समवायस्य नित्यत्वाद्व्यापकत्वाच्च सर्वात्मनामपि समवायसमानधर्मिकत्वान्न ततः प्रतिनियम इत्यर्थः ॥ इदानीं स्वपरपक्षसाधनदूषणव्यवस्थामुपदर्शयति
प्रमाणतदाभासौ दुष्टतयोद्भावितौ परिहृतापरिहृतदोषौ वादिनः साधनतदाभासौ प्रतिवादिनो दूषणभूषणे च ॥ ७३ ॥
वादिना प्रमाणमुपन्यस्तं तच्च प्रतिवादिना दुष्टतयोद्भावितं पुनर्वादिना परिहृतं तदेव तस्य साधनं भवति प्रतिवादिनश्च दूषणमिति ॥ यदा तु वादिना प्रमाणाभासमुक्तं प्रतिवादिना तथैवोद्भावितं वादिना चापरिहृतं तदा तद्वादिनः साधनाभासो भवति प्रतिवादिनश्च भूषणमिति ॥ अथोक्तप्रकारेणाशेषविप्रतिपत्तिनिराकरणद्वारेण प्रमाणत्वं स्वप्रतिज्ञातं परीचय नयादितवमन्यत्रोक्तमिति दर्शयन्नाह -
सम्भवदन्यद्विचारणीयमिति ॥ ७४ ॥
सम्भवद्विद्यमानमन्यत्प्रमाणतत्त्वान्नयस्वरूपं शास्त्रान्तरप्रसिद्धं विचारणीयमिह युक्त्या प्रतिपत्तव्यम् । तत्र मूलनयौ द्वौ द्रव्यार्थिक पर्यायार्थिकभेदात् । तत्र द्रव्यार्थिकस्त्रेधा नैगमसंग्रहव्यवहारभेदात् । पर्यायार्थिकश्च - तुर्धा ऋजुसूत्र शब्दसमभिरूढैवम्भूतभेदात् । अन्योऽन्यगुणप्रधानभूतभेदाभेदप्ररूपणो नैगमः नैकं गमो नैगम इति निरुक्तेः ॥ सर्वथाऽभेदवादस्तदाभासः || प्रतिपक्षव्यपेक्षः सन्मात्रग्राही संग्रहः ॥ ब्रह्मवादस्तदाभासः ॥ संग्रहहीतभेदको व्यवहारः ।। काल्पनिको भेदस्तदाभासः ॥ शुद्धपर्यायग्राही प्रतिपक्षसापेक्ष ऋजुसूत्रः ।। क्षणिकैकान्तनयस्तदाभासः ॥ कालकारकलिङ्गानां भेदाच्छन्दस्य कथञ्चिदर्थभेदकथनं शब्दनयः ॥ अर्थभेदं विना शब्दानामेव नानात्वैकान्तस्तदाभासः ॥ पर्यायभेदात्पदार्थनानात्वनिरूपकः समभिरूढः || पर्यायनानात्वमन्तरेणापीन्द्रादिभेदकथनं तदाभासः ॥ क्रियाश्रयेण भेदप्ररूपणमित्थम्भावः ॥ क्रियानिरपेक्षत्वेन क्रियावाचकेषु काल्पनिको व्यवहारस्तदाभास इति ।। इति नयतदाभासलक्षणं सङक्षेपेणोक्तं विस्तरेण नयचक्रात्प्रतिपत्तव्यम् | अथवा सम्भवद्विद्यमान
1
Jain Education International
For Personal & Private Use Only
-
www.jainelibrary.org