________________
मेयरत्नमाला
असं रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपवदिति । तदप्यपर्यालोचिताभिधानं मण्यञ्जनादेः पार्थिवत्वेऽपि रूपप्रकाशकत्वदर्शनात् ॥ पृथिव्यादिरूपप्रकाशकत्वे पृथिव्याद्यारब्धत्वप्रसङ्गाच्च । तस्मात्सन्निकर्षस्याव्यापकत्वान्न प्रमाणत्वं करणज्ञानेन व्यवधानाच्चेति । प्रत्यक्षाभासमाह - अवैशद्ये प्रत्यक्षं तदाभासं बौद्धस्या कस्माद्धूमदर्शनाद्वह्निविज्ञानवदिति ॥ ६ ॥
परोक्षाभासमाह -
वैशद्येऽपि परोक्षं तदाभासं मीमांसकस्य करण ज्ञानवत् ॥ ७ ॥ प्राक् प्रपश्चितमेतत् । परोक्षभेदाभासमुपदर्शयन् प्रथमं क्रमप्राप्तं स्मरणा
भासमाह
तस्मिंस्तदिति ज्ञानं स्मरणाभासं जिनदत्ते स देवदत्तो यथेति ॥ ८ ॥
अतस्मिन्नननुभूत इत्यर्थः शेषं सुगमम् || प्रत्यभिज्ञानाभासमाह - सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदित्यादि प्रत्यभिज्ञानाभासम् ॥ ६ ॥
吳業
द्विविधं प्रत्यभिज्ञानाभासमुपदर्शितं, एकत्व निबंधनं सादृश्यनिबंधनं चेति । तत्रैकस्बे सादृश्यावभासः सादृश्ये चैकत्वाभासस्तदाभासमिति || तर्काभासमाह—
असम्बद्धे तज्ज्ञानं तर्काभासम् ॥ १० ॥
यात्राँस्वत्पुत्रः स श्याम इति यथा । तज्ज्ञानमिति व्यातिल तयसम्बन्धज्ञानमित्यर्थः ॥ इदानीमनुमानाभासमाइ
इदमनुमानाभासम् ॥ ११ ॥
इदं वच्यमाणमिति भावः । तत्र तदवयवाभासोपदर्शनेन समुदायरूपानुमानाभासमुपदर्शयितुकामः प्रथमावयवाभासमाह - तत्रानिष्टादिः पक्षाभासः ॥ १२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org