________________
प्रमेयरत्नमाला सति कर्तृप्रत्यक्षतायां तदभिन्नस्यापि करणस्य कथञ्चित्मत्यतत्वेनाप्रत्यक्षतैकान्तविरोधात्मकाशात्मनोऽप्रत्यक्षत्वे प्रदीपप्रत्यक्षत्वविरोधरदिति ॥ गृहीतग्राहिधारावाहिज्ञानं, गृहीतार्थ दर्शनं, सौगताभिमतं निर्विकल्पकं, तच्च स्वविषयानुपदर्शकत्वादप्रमाणं व्यवसायस्यैव तज्जनितस्य तदुपदर्शकत्वात् ॥ अथ व्यवसायस्य प्रत्यत्ताकारणानुरक्तत्वात्ततः प्रत्यत्तस्यैव प्रामाण्यं व्यवसायस्तु गृहीतग्राहित्वादप्रमाणमिति तन सुभाषितंदर्शनस्याविकल्पकस्यानुपलक्षणात्तत्सद्भावायोगात् सद्भावा वा नीलादाविव तणक्षयादावपि तदुपदर्शकत्वमसङ्गात् ॥ तत्र विपरीतसमारोपान्नेति चेत्तर्हि सिद्धं नीलादौ समारोपविधिग्रहणलक्षणो निश्चय इति तदात्मकमेव प्रमाणमितरत्तदाभासमिति ॥ संशयादयश्च प्रसिद्धा एव । तत्र संशयउभयकोटिसंस्पर्शी स्थाणुर्वा पुरुषो वेति परामर्शः॥ विपर्ययः पुरस्तस्मिस्तदिति विकल्पः। विशेषानवधारणमध्यवसायः।। कथमेषामस्वसंविदितादीनां तदाभासतेन्यत्राह
___ स्वविषयोपदर्शकत्वाभावात् ॥ ३ ॥ गतार्थमेतत् । अत्र दृष्टान्तं यथाक्रममाह
पुरुषान्तरपूर्वार्थगच्छत्तृणस्पर्शस्थाणुपुरुषादिज्ञानवत् ॥ ४ ॥ पुरुषान्तरं च पूर्वार्थश्च गच्छत्तणस्पर्शश्च स्थाणुपुरुषादिश्च तेषां ज्ञानं तद्वत् ॥ अपरं च सन्निकर्षवादिनं प्रति दृष्टान्तमाह
चक्रसयोर्द्रव्ये संयुक्तसमवायवच्च ॥ ५॥ अयमों यथा चतूरसयोः संयुक्तसमवायः सन्नपि न प्रमाणं तथा चक्षुरूपयोरपि । तस्मादयमपि प्रमाणाभास एवेति ॥ उपलक्षणमेतत् अतिव्याप्तिकथनमव्याप्तिश्च । सन्निकर्षप्रत्यक्षवादिनां चक्षुपि सन्निकर्षस्याभावात् ॥ अथ चतुःप्राप्तार्थपरिच्छेदकं व्यवहितार्थाप्रकाशकत्वात् प्रदीपवदिति तत्सिद्धिरिति मतं तदपि न साधीयः। काचाभ्रपटलादिव्यवहितार्थानामपि चक्षुषा प्रतिभासनादेतोरसिद्धः। शाखाचन्द्रमसोरेककालदर्शनानुपपत्तिप्रसक्वेश्च ॥ न च तत्र क्रमेऽपि योगपद्याभिमान इति वक्तव्यम् । कालव्यवधानानुपलब्धेः॥ किश्च क्रमप्रतिपत्तिः प्राप्तिनिश्चये सति भवति । न च क्रमप्राप्तौ प्रमाणान्तरमस्ति । तैजसत्वमस्तीति चेन्न तस्यासिद्धेः॥ अथ चतुस्तै
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org