________________
(१४३) शान्तिनाथ-पञ्चतीर्थीः सम्वत् १४६९ वर्षे उकेशवंशे सा० खेता-सन्ताने सा० नूना पुत्र नाह सुत्रण (?) भा० गोरलकेन भ्रातृ वाछा पुत्र नाला देपु युतेन श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं श्रीजिनवर्द्धनसूरिभिः खरतरगच्छे ।
(१४४) पार्श्वनाथ-पञ्चतीर्थीः सं० १४६९ वर्षे ........................"दि ३ साह सहदे पुत्रेण सा० तोल्हाकेन पुत्र................. श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनवर्द्धनसूरिभिः।
(१४५) मेरुनंदनोपाध्यायमूर्तिः सं० १४६९ वर्षे सा० रामदेवभार्यया श्रीमेलादेश्राविकया स्वभ्रातृस्नेहलया श्रीजिनदेवसूरिशिष्याणां श्रीमेरुनंदनोपाध्यायानां मूर्तिः कारिता। प्रतिष्ठिता श्रीजिनवर्द्धनसूरिभिः॥
(१४६) शिलालेखः (१) ॥ ॐ ॥ नमः श्रीपार्श्वनाथाय सर्वकल्याणकारिणे। अर्हते जितरागाय सर्वज्ञाय महात्मने ॥ १॥
विज्ञानदूतेन निवेदिताया मुक्तयंगनाया विरहादिवात्र । रात्रिंदिवं यो विगत प्रमी(२) लो विघ्नापनोदं स तनोतु पार्श्वः॥ २॥ समस्ति शस्तं परमर्द्धिपात्रं परं पुरं जेसलमेरुनाम। यदाह
सर्वस्वमिव क्षमायाः कुलांगनाया इव सौवकांतं ॥ ३॥ तत्राभूवनखंडा यदुकुल(३) कमलोल्लासमार्तंडचंड़ा दोडाक्रांतचंडादितनरपतयः पुष्कला भूमिपालाः। येषामद्यापि लोकैः
श्रुतिततिपुटकैः पीयते श्र्लोकयूषस्तत्पूर्ण विश्वभांडं कुतुकमिह यतो जा(४) यते नैव रिक्तं ॥ ४॥ तत्र क्रमादभवदुग्रसमग्रतेजाः श्रीक्षेत्रसिंहनरराज इति प्रतीतः। चिच्छेद
शात्रवनृपानसिनांजसा यो वज्रेण शैलनिवहानिव वज्रपाणिः॥ ५ ॥ तस्य प्रशस्यौ तन(५) यावभूतां श्रीमूलदेवोथ च रत्नसिंहः। न्यायेन भुंक्तः स्म तथा भुवं यौ यथा पुरा लक्ष्मणरामदेवौ ॥६॥
श्रीरत्नसिंहस्य महीधवस्य बभूव पुत्रो घटसिंहनामा। यः ।। (६) सिंहवन् म्लेच्छगजान् विदार्य बलादलाद्वप्रदरीमरिभ्यः॥ ७॥ सुनंदनत्वाद्विबुधैर्नुतत्वाद् गोरक्षणाच्
श्रीदसमाश्रितत्वात् श्रीमूलराजक्षितिपालसूनुर्यथार्थ(७) नामाजनि देवराजः॥ ८॥ तदंगजो निर्भयचित्तवृत्तिः परैरधृष्यप्रगुणानुवृत्तिः। पराक्रमक्रांतपरद्विपेंद्र:
श्रीकेहरि: केशरिणा समोभूत् ॥ ९॥ तस्यास्ति सूनुः (८) स्वगुणैरनूनः श्रीलक्ष्मणाख्यः क्षितिपालमुख्यः। राज्ञोपि यस्यातिविसारितेजश्चित्रं न्यकार्षीद्रविबिंबलक्ष्मीं॥
१०॥ शत्रुघ्नबंधुरिह सन्नपि लक्ष्मणोपि रा(९) माभिधानजिनभक्तिपरायणोपि। एतत् कुतूहलमहो मनसाप्यसौ यन्नापीडयन्निविडपुण्यजनान् कदाचित्
॥११॥ तथा सुमित्रामितनंददायी न दीनबंधे निरतोव
१४३. ऋषभदेवजिनालय, भैंसरोडगढ़ : प्रतिष्ठा लेख संग्रह-१, लेखांक २०१ १४४. चिन्तामणि जी का मंदिर, बीकानेर : ना० बी०, लेखांक ६५२ १४५. ऋषभदेव जी का मंदिर, देलवाड़ा : देवकुलपाटक-विजयधर्मसूरि, लेखांक १७; प्रा० ले० सं०,लेखांक १०७; पू०
जै०, भाग २, लेखांक १९९७ १४६. पार्श्वनाथ मन्दिर, जैसलमेर: पू० जै० भाग-३, लेखांक २११२ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:)
(३३)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org